पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः ङ्गमाअङ्गमहामहीहरसहस्सं भमन्तभुअदण्डमन्दराहिहादघुमन्तस- अलपत्तिसलिलसंघादं कण्णसेणासाअरं णिम्महिअ महमहणेणेव खीरसमुद्दं आसादिदा समरविजअलच्छी । तस्स संपदं सअलमुणि- अणसलाणिज्जओ कहं एरिसो उसमो संबुत्तो । सूत्रधारः— आर्ये, निसर्गसौम्यमेव ब्राह्मं ज्योतिः कुतोऽपि — ु ु तुङ्गमातङ्गमहामहीधरसहस्रम् भ्रमद्भुजदण्डमन्दराभिघातघूर्णमानसकलप- त्तिसलिलसंघातम्, कर्णसेनासागरं निर्मथ्य मधुमथनेनेव क्षीरसमुद्रमासादिता समरविजयलक्ष्मीः । तस सांप्रतं सकलमुनिजनश्लाघनीयः कथमीदृश उपशमः संवृत्तः । ‘कगचजतदपयवाम्' इति सूत्रेण तकारस्य लोपः । तकारलोपे शिष्टस्याकारस्य 'यश्रुतिरः' इति सूत्रेण यकारश्रुतिर्भवति । एवमुत्तरत्र भाषाद्वयमूह्यम् । वि- शेषोऽस्ति चेदुच्यत एव ॥ - सूत्रधारः । आर्ये इत्यादि । आर्ये, ब्राह्मं ब्रह्म- संवन्धि । 'ब्राह्मो जातौ' इति निपातः । ज्योतिस्तेजः स्वभावसौम्यं कुतोऽपि कारणादित्यादिना मृदवं नामामुखाङ्गं सूचितम् । कुतोऽपिं कारणात्प्राप्तविकारमि- सहस्रं भ्रमद्भुजदण्डचण्डमन्दराभिघातघूर्णत्सकलपत्तिसलिलसंधातं कर्णसैन्यसागरं निर्म- थ्य मधुमथनेनेव क्षीरसमुद्रमासादिता समरविजयलक्ष्मीः । तस्य सांप्रतं सकलमुनि- जनश्लाघनीयवीरचरितस्य कथमीदृश उपशमः संवृत्त: । ] आर्यपुत्र, आश्चर्यमाश्चर्यम् । येन समरविजयलक्ष्मीरासादिता प्राप्तेति प्राकृतप्रान्ते प्राकृतान्वयः । किं कृत्वा । कर्ण सैन्यसागरं निर्मथ्य | केन कमिव । मधुमथनेन श्रीकृष्णेन क्षीरसमुद्रमिव । यथा क्षीरसागरं निर्मथ्य श्रीकृष्णेन लक्ष्मीलब्धा एवं तेन राज्ञेत्यर्थः । किंभूतेन । येन नथुमथनेन च । तथा तेनोकप्रकारेण निजभुजबलविक्रमेणैकेन निर्भत्सितं सकलं राजमण्डलं येन । कीदृशं कर्णेसैन्यसागरम् | आकर्णांकृष्टः कठिनो यः कोदण्डदण्ड- स्तस्माद्वर्षन्यः शरनिकरो वाणसमूहस्तेन जर्जरीकृतास्तुरंगास्त एव तरङ्गमाला यस्मिन् । पुनः कीदृशम् । निरन्तरं निपतन्ति तीक्ष्णानि विक्षिप्तानि इतस्तत: पति- तानि शस्त्राणां सहस्त्राणि अपरिमितानि शस्त्राणि तैः पर्यस्ता विध्वरता उत्तुङ्गा ये मातङ्गाः करिणस्त एव महामहीधराः पर्वतास्तेषां सहस्रं यस्मिन् । पुनः कीदृशम् । भ्रमन् यो गुजदण्ड: स एव चण्डो मन्दरस्तदगिधातेन घूर्णन्तः सकला ये पत्तयस्त एब सलिलसंघातो जलसमूहो यस्मिन् । तस्य सांप्रतं सकलमुनिजन श्लाघनीयत्री- रचरितस्य कथमीदृश उपशमः संवृत्तः ॥ आर्ये इति | निसर्गसौम्यं स्वभावसौम्यम् ।