पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् पुनः स्वभावमेवावतिष्ठते । यतः सकलभूपा- चेदिपतिना समुन्मूलितं चन्द्रान्वयपार्थि- वानां पृथिव्यामाधिपत्यं स्थिरीकर्तुमयमस्य संरम्भः | पश्य तदा कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः । स्थैर्यप्रसादमर्यादास्ता एव हि महोदधेः ॥ ६ ॥ कारणात्प्राप्तविकारमपि लकुलप्रलयकालाग्निरुद्रेण त्यनेन स्वभावसिद्धगुणानामगुणताप्रतीतेः 'दोषा गुणा गुणा दोषा यत्र स्युर्मुदवं हि तत्' इति तल्लक्षणात् ॥ – यत इति । चेदिपतिना कर्णभूपेन चन्द्रान्वयपा- र्थिवानां श्रीकीर्तिवर्मप्रभृतीनाम् । अन्यत्स्पष्टम् । तदेव सदृष्टान्तमाह - पश्ये- त्यादि । आलोचयेयर्थः । 'पइयार्थैश्चानालोचने' इति सूत्रेण पश्यतिधातो- रालोचनमप्यर्थ इति गम्यते । एवमुत्तरत्रापि द्रष्टव्यम् ॥ तदेति । यदा पूर्वाति- क्रमस्तदेत्यर्थः ॥ कल्पान्तेति । कल्पान्तसमयेऽपि समुद्रस्य स्वरूपमात्रस्य क्षोभो न तु स्थैर्यादीनां क्षोभः । अत उक्त ता एवेति । स्वभावसिद्धा इत्यर्थः । एवकारे- णागन्तुकगुणनिरासः | हि प्रसिद्धौ । अनेन गोपालस्यापि शत्रुसंहरणसमयेऽपि स्थैर्यादिगुणास्त एवेति गम्यते । अनेन त्रिगतं नामामुखाङ्गमुक्तम् । 'श्रुतिसाम्या दने कार्ययोजनं त्रिगतं मतम्' इति लक्षणात् । श्रुतिसाम्यं द्वेधा । वर्णपदादिश्रु- तिर्ध्वनिश्रुतिश्चेति । वर्णपदादिश्रुतायुदेखनं ध्वनिश्रुतावर्थान्तरख्यापन मिति वि वेकः ॥ अत्र स्थैर्यप्रसादमर्यादाश्रुतिसाम्यादनेकार्थयोजना त्रिगतम् । तदेव दृष्टा- न्तान्तरेण द्रढयति—[कल्पान्तेति ।] यथा तथापि कल्पान्तसमये प्रलयस- मये संक्षोभः क्षोभत्तेन लङ्घिता अशेषभूभृतः समस्तपर्वता येन स तथोक्तः । तस्य महोदधे: समुद्रस्य स्थैर्यप्रसाद मर्यादास्ता एव पूर्वसिद्धा एव । अयमर्थः । यदा समुद्रस्य प्रलयसमये संक्षोभवशात्सर्वपर्वतानाक्रान्तवतः तस्मिन्समये न स्थैर्य- प्रसादमर्यादादयः प्रलयसमयापाये पुनस्त एव स्थैर्यमर्यादादयो गुणाः प्रादुर्भ- वन्ति । तथा गोपालस्यापि स्वभावतः शान्तस्य कार्यस्य कार्यवशाच्छौर्यादिवि - कारसंभवेऽपि समस्तान्समाक्रान्तवतोऽपि राज्ञः कार्यनिर्वाहानन्तरं पुनः स्व- एतेन ब्रह्मणि स्वभावनैर्मल्यं प्रदर्श्याविद्याकृतं विकारं दर्शयति – सकलेति । सकला ये भूपालास्तेषां कुलं तन्त्र प्रलयकालाग्निरिव रुद्रः क्रूरस्तेन चेदिदेशाधिपतिना राज्ञा शिशुपालेन समुन्मूलितं समुत्पाटितं सोमवंशानां राज्ञां कीर्तिवर्मप्रभृतीनां रक्षितॄणामाधिपत्यं स्थिरीकर्तुमयमस्य संरम्भः क्रोधो नैमित्तिको न स्वाभाविकः ॥— अमुमर्थ प्रकारान्तरेणाह– कल्पान्तेति कल्पान्ते यो बातस्तेन संक्षोभ उच्छलनं तेनोलङ्क्षिता अशेषभूभृतः पर्वता येन तस्य महोदधेः समुद्रस्य ता एवं प्रकृतिभूता एव स्थैर्यप्रसादमर्यादा: स्थैर्य निश्चलता, प्रसाद: स्वच्छता, मर्यादा वेलानुल्लङ्घनम्,