पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १३ साम्राज्यमस्य विहितं क्षितिपालमौलि- मालाचिंतं भुवि पयोनिधिमेखलायाम् ॥ ३ ॥ तद्वयं शान्तरसंप्रयोगाभिनयेनात्मानं विनोदयितुमिच्छामः । ततो यत्पूर्वमस्मद्गुरुभिरतत्रभवद्भिः श्रीकृष्णमिश्रैः प्रबोधचन्द्रोदयं नाम नाटकं निर्माय भवतः समर्पितमासीत् तदद्य राज्ञः श्रीकी- र्तिवर्मणः पुरस्तादभिनेतव्यं भवता । अस्ति चास्य भूपतेः सपरिषद्- क्षितिरपि रक्षावयभूत् । प्रथितैः प्रसिद्धैरमायैः पयोधिमेखलायां भुव्यस्य की र्तिवर्मणो राज्ञः क्षितिपालमौलिमालार्चितं साम्राज्यं सम्राजो भावः साम्राज्यं वि- हितं कृतम् । अस्माभिरिति शेषः । यत इत्यारभ्य इच्छाम इत्यन्तेन ग्रन्थेन काव्यार्थसूचकैर्वचनैः सभारञ्जनात्मकं प्ररोचनाङ्गमुक्तम् । तथा हि 'नीताः क्षयं क्षितिभुजो नृपतेर्विपक्षा' इत्यनेन विवेकमहाराजस्य महामोहादिजयः सूचितः । 'रक्षावती क्षितिरभूतप्रथितैरमात्यैः' इत्यनेन यमायष्टाङ्गयोगैरन्तःकरणशुद्धिः सू- चिता । 'साम्राज्यमस्य विहितम्' इत्यनेन पुरुषस्य खरूपलाभरूपं सायुज्यं सूचि - तम् । अर्थात्साध्यभूतसायुज्यकथनेन साधनभूतः प्रबोधचन्द्रोदयोऽपि सूचितः ॥ ३ ॥ कृतकृत्यप्रयोजनमाह- तद्वयमित्यादिना | शान्तरसप्रधानो यः प्रयोगाभिनयो नाट्यानुकारस्तेनेत्यर्थः । आत्मविनोदोपायमाह–तत इत्या- दिना । तत् अद्येति पृथग्वाक्यम् । यत् कृष्णमिश्रैस्तत्रभवद्भिर्महानुभावैः । अ- न्वर्थसंज्ञेयंम् । नाम प्रसिद्धौ | वक्ष्यमाणनाटकलक्षणलक्षितं नाटकं निर्माय भवतः समर्पितमासीत् । अत्र कृष्ण मिश्रैस्तत्रभवद्भिरिति कविप्रशंसा प्रबोधच- न्द्रोदयं नाम नाटकमिति काव्यप्रशंसा च भवत इति । अनेनाभिमुख्यवाचिना नटप्रशंसा । तदद्येत्यनेनैतावन्तं कालं तूष्णीं स्थितस्य नाटकस्येदानीमुपयोगकालः संवृत्त इति सूचितम् । तदद्येत्यादि । तत्तस्मात्कारणात् । अद्यास्मिन्दिने । अद्येति कालनिर्देशाख्यमङ्गम्, शान्तरसप्रधाननाटकाभिनयस्य शमोदयकाल एव कालः । पुरस्तादिति निर्देशाख्यमङ्गम् । अस्ति चेत्यादि । परिषदश्चेति सभा- पालानां मौलिमाला मुकुटश्रेणयस्ताभिरचितं पूजितम् । कीदृश्यां भुवि । पयोनि- धयः सागरा एव मेखला: परिखा यस्यां सा तस्याम् ॥ ३ ॥ - कृतकृत्यताप्रयोजन- माह—तद्वयमित्यादिना । शान्तरसप्रायः शान्तरसप्रधानो यः प्रयोगाभिनयो नाट्यानुकारस्तेनेत्यर्थः । आत्मविनोदोपायमाह—तद्यदिति । तत्रभवद्भिः पूज्यैः । १ ‘रसप्रायप्रयोगा' इति पाठः | २ 'तद्यत्पूर्वं तत्रभवद्भिः' इति पाठः | ३ ‘प- रिषदोऽवलोकने' इति पाठः ।