पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः यवनसंपातनर्तितप्रतापानलेन श्रीमता गोपालेन । यथा खल्वस्य सहजसुहृदो राज्ञः कीर्तिवर्मदेवस्य दिग्विजयव्यापारान्तरितपरब्रह्मा- नन्दरसैरस्माभिः समुन्मीलितविविध विषयरसास्वादूषिता इवातिवा- हिता दिवसाः । इदानीं तु कृतकृत्या वयम् । यतः १२ नीताः क्षयं क्षितिभुजो नृपतेर्विपक्षा रक्षावती क्षितिरभूत्प्रथितैरमात्यैः । । स्वाः सर्वे आशास्तम्बेरमा दिग्गजास्तेषां कर्णतालाः कर्णी एव तालास्तेषामास्फा- लनं संघट्टनं तेन साधनेन बद्दलस्याधिकस्य पवनस्य वायोः संपातेनाघातेन । त- दुत्थशब्देनेति यावत् । प्रनर्तितो नृत्तं कारितः । प्रज्वलित इति यावत् । प्रता- पानलो यस्य सः । अत्राप्यतिशयोक्तिरलंकारः । प्रतापानलस्य दिग्गजकर्णज- नितपवनसंवलनप्रज्वलनासंबन्धेऽपि संवन्धकथनात्प्रतापानलेति रूपकम् । अ नयोः संसृष्टिः । श्रीमता महानुभावेन गोपालेन राज्ञा । अनेन नायकप्रशंसा- नाम प्ररोचनाङ्गं सूचितम् । किमादिष्टमिति तदाह – यथा खल्वित्यादि । गोपालवाक्यमेतत् । समुन्मीलितः समुद्रिक्तो नानाविधानां विषयाणां शब्दा- दीनां रसाखादः प्रीतियुक्तोऽनुभवस्तेन दिवसा दूषिता इवातिवाहिता गमिताः । इदानीमस्मिन्काले विमर्शदशायां दूषिता इव प्रतिभान्तीत्यर्थः । अतः कृतकृत्या वयमिति । कीर्तिवर्मणि राज्यस्थापनात्स्वस्थचित्ता वयमित्यर्थः । वयमित्यत्र ‘अस्मदो द्वयोश्च’ इत्येकत्वे बहुवचनम् ॥ यत इत्यादि । नीता इति । नृपतेः कीर्तिवर्मणो विपक्षाः क्षितिभुजो राजानः क्षयं विनाशं नीताः प्रापिताः । प्रतापरूपोऽनलो यस्य तादृशेन । अनेन दिगन्तविश्रान्तप्रताप इति ध्वनितम् । आज्ञप्तोऽगीत्युक्तं तामाज्ञामेव दर्शयति — यथेति । खलु प्रसिद्धौ । अस्य सहज- सुहृदः स्वभावकोमलस्य श्रीकीर्तिवर्मदेवनाम्नो राज्ञः, कीर्तिरेव कवचं यस्येति वा । तस्य यो दिग्विजयस्तद्व्यापारेणान्तरितो विलम्बित: परब्रह्मानन्दरसो येषां तादृशैर- स्माभिः सम्यगुन्मीलिताः सम्बगनुभूता विविधा अनेकप्रकारा विषयाः लगादय- स्तेषां रसरपर्शेनानन्दानुभवेन दूषिता इव विषयसुखस्य हेयत्वाद्दिवसा अतिवाहिता अतिक्रान्ताः । कृतकृत्यतां दर्शयति – यत इति । नीता इति । नृपतेर्विपक्षा वैरिण: क्षितिभुजो भूमिपालाः क्षयं नीताः प्रापिताः । प्रथितैः ख्यातैरमात्यैर्मन्त्रिभिः क्षिती रक्षावत्यभूत् । अस्य नृपतेर्भुवि साम्राज्यं विहितं कृतम् । कीदृशम् । क्षिति- १ 'रसस्पर्शदूषिता' इति पाठः ।