पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् बहुवक्षरतटकपाटपाटनप्रकटितनृसिंहरूपेण प्रबलतरनरप तिकुलप्रलय- महार्णवनिमग्नमेदिनी समुद्धरणमहावराहरूपेण सकैलदिग्विलासिनी- कर्णपूरीकृतकीर्तिलतापल्लवेन समस्ताशास्तम्वेरमकर्णतालास्फालनबर्हेल- विदारणेन प्रकटितं प्रकाशितं नृसिंहरूपं यस्य तेन । अत्र नरः सिंह इवेत्युपमि- तसमासः । हरिपक्षे नरश्चासौ सिंहश्चेति कर्मधारयः | बलवदरिनिवहशब्देन हिरण्यकशिपुर्लक्ष्यते । बक्षस्तटं कपाटमिवेत्युपमितसमासः । अस्मिन्वाक्ये परंपरितरूपकम् । बलवदरिनिवह्वक्षस्तटकपाटपाटनमेव बलवदारनिवहवक्षस्त- टकपाटपाटनमिति रूपकस्य नरसिंह इव नरसिंह इति रूपकं प्रति हेतुत्वेनोपादा- नातू । अत्रोपमारूपकयोरेकवाचकानुप्रवेशलक्षणः संकरः ॥ प्रबलतरनरप- तीत्यादि । प्रबलतरा अतिप्रबलाः । 'द्विवचनविभज्य-' इत्यादिना तरप्प्र- ययः । प्रबलतरा अनिवार्यास्ते च ते नरपतयश्च तेषां कुलं समूहः स एव प्रलयमहार्णवस्तत्र निमग्ना मेदिनी तस्याः समुद्धरणमुद्धारस्तत्र वराहरूपेण । अत्रापि परम्परितरूपकालंकारः । राज्ञो वराहरूपणं प्रति मेदिनीसमुद्धरणरू- पस्य हेतुत्वेनोपादानाद्रूप कहेतुरूपकं परम्परित मिति लक्षणात् । कुलप्रलयमहार्णव इत्यत्र रूपकालंकारः । सकलदिग्विलासिनीत्यादि । सकलाः समस्ता दिश एव विलासिन्यो वनितास्तासां कर्णपूरीकृतः कर्णावतंसीकृतः । कर्णपूर आ- भरणविशेषः । अभूततद्भावे च्विः । कीर्तिपल्लवो येन सः । कीर्तिपल्लव इत्यत्र रूपकम्। कर्णपूरीकृतेत्यत्र परिणामालंकारः । अनयोरङ्गाङ्गिभावेन संकरः । परिणामरूपसं- करेणातिशयोक्तिरूपकसंकरः संकीर्यते । समस्ताशास्तम्बेरमेत्यादि । सम- येति भावः । पुनः कीदृशेन । सकलाः सर्वे ये सामन्ता मण्डलेश्वरास्तेषां चक्रं समूहस्तस्य चूडामणयो मुकुटगणयस्तेषां मरीचिमञ्जर्य: किरणपरम्परास्ताभिनींरा- जितं चरणकमलं यस्य तादृशेन । पुनः कीदृशेन । बलवन्तो येऽरिपुञ्जाः शत्रु- समाजास्तेषां वक्षस्तटमेव कपाटं तस्य पाटने विदारणे प्रकटितं नरसिंहरूपं येन । पुनः कीदृशेन । प्रबलतराणि यानि नरपतिकुलानि तेषां प्रलयो विनाशः स एव महार्णबस्तस्णिन्मना वा मेदिनी तस्याः समुद्धरणे वराह इव वराहस्तेन । पुनः की- दृशेन । निखिलाः समरता दिपा विलासिन्यो वाराङ्गनास्तासां कर्णपूरः अकर्णपूरः कर्णपूरः संपन्नस्तथा कृत: कर्णपूरीकृत: श्रवणालंकारीकृतः कीर्तिलतापलवो येन । एतेन दिगन्तविश्रान्तकीर्तित्वं ध्वनितम् । पुनः कीदृशेन । समस्ता ये आशास्तम्बेरमा दिग्गजास्तेषां कर्णतालास्फालनेन बहुलतरो यः पवनसंपातरतेन नर्तित: प्रवर्तितः १] १ 'नरसिंह' इति पाठः । २ 'वराहेण' इति पाठः । ३ 'निखिलवाग्विलास' इति पाठः । ४ 'वहलतर' इति पाठः ।