पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः स्तदवलोकने कुतूहलमिति । तद्भवतु । गृहं गत्वा गृहिणीमाहूय संगी- तकमनुतिष्ठामि । (परिक्रम्य नेपथ्याभिमुखमवलोक्य ।) आर्ये, इतस्तावत् । ( प्रविश्य नटी । ) - प्रशंसा । तद्भवत्वित्यात्मगतम् | गृहं गत्वेति । गृहं नेपथ्यम् | गृहिणीं नटी- माहूय संगीतकमनुतिष्ठामि रचयामि । 'संगीतकशब्देन स्थानकभूमिकयोः परि- ग्रहः । यथोक्तं भरते – 'रङ्गसंचारिपात्राणां स्थानकं भूमिकां विदुः । स्त्रीणां रङ्गोपविष्टानां गानं संगीतकं विदुः | मषीवर्णादिरचनां स्थानकं तद्विदो विदुः ॥' आदिशब्देन पुस्तकभूषाङ्गरचनासंजीवरूपं चतुर्विधमाहार्यं संगृहीतम्– 'पुस्तं प्रदर्शितं नाट्ये विमानाद्विवनादिकम् । कुण्डलादिस्तु भूषानं रचना वङ्गलेपनम् ॥ सजीवपशुपक्ष्यादिप्राणिनां रूपवारणम् ॥ इति ॥ परिक्रम्येति । परिक्रमणम भिनयविशेषः । नेपथ्याभिमुखमवलोक्येति । नेपथ्यं नाम सूत्रधारकुटुम्ब गृहम् । तदुक्तं भरते– 'सूत्रधारकुटुम्बस्य गृहं नेपथ्यमुच्यते' इति । तन्निर्माण- प्रकारोऽपि तत्रैव कथितः – 'चतुःषष्टिकरां भूमि द्विधाभूतां ततः पुनः । पृष्ठतो भूमिभागो यो द्विधाभूतस्य तस्य तु ॥ तस्याप्यो विभागेन रङ्गशीर्ष प्रक ल्पयेत् । पश्चिमेन विभागेन नेपथ्यगृहकल्पना ॥” इति । नेपथ्यस्याभिमुखं यथा भवति तथावलोक्य | तां दिशामिति शेषः । इति प्ररोचना ॥ अथामुखं निरूप्यते – आर्ये, इतस्तावदिति । यथोक्तम् – 'सूत्रधारो नहीं ब्रूते मारिषं वा विदूषकम् । स्वकार्य प्रस्तुताक्षेपी विचित्रैर्वचनैस्तथा || विचित्रैरुचि तैर्वापि यत्रेदं प्राहुरामुखम् ॥' इति । प्रस्तुताक्षेपी प्रस्तुतस्य वस्तुनो नाट्यस्या- क्षेपो यथा भवति तथा ब्रूते व्यक्तवाचा कथयति । अत एव सूचनां विनैव पात्रस्य प्रवेशः ॥ – प्रविश्य नटीत्यादि । छाया नाम प्राकृतादिभाषाणां संस्कृतभाषैव । तदुक्तं वृत्तिकारेण – ‘प्राकृतं तद्भवं देश्यं तत्समं चेयत- स्त्रिधा | तत्समं संस्कृतसमं नेयं संस्कृतलक्षणात् || देश्यमार्पसदृक्षवात्स्वतन्त्र- लाच भूयसा । लक्ष्म नापेक्षते तस्य संप्रदायो हि लौकिकः ॥ प्रकृतेः संस्कृ तात्साध्यमानात्सिद्धाच्च यद्भवेत् । प्रकृतस्यास्य लक्ष्मानुरोधि लक्ष्म प्रचक्ष्महे ॥ छाया गीर्वाणवाण्या षट् सर्वलोकसमाचिताः । प्रतिभान्ति सतां श्रीदा गायत्र्या इच कुक्षयः ॥' इति । अतश्च छायाधारत्वाच्छायालव्यपदेशो गीर्वाणवाण्या । 1- - अत्रभवत्तत्रभवच्छब्दौ पूजार्थी परिक्रम्येत्यन्तं सुगमन् | नेपथ्यं नान्द्याः पाठाय पटीबन्धः ॥–प्रविश्य नटीति । वदतीति शेषः । किं वदति । एषास्मि । आज्ञा- १ 'गृहिणीं समाहूय' इति पाठ: । २ 'संगीतकर्मानुतिष्ठामि' इति पाठः ।