पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् अम्भःशीतकरान्तरिक्षनगरखमेन्द्रजालादिवत् कार्यं मेयमसत्यमेतदुदयध्वंसादियुक्तं जगत् । शुक्तौ रूप्यमिव सजीव भुजगः खात्मावबोधे हरा- वज्ञाते प्रभवत्यथास्तमयते तत्त्वावबोधोदयात् ॥ २२ ॥ विकारशङ्का तु मुग्धवधूविकल्पविलसितमिव । तथाहि — २२९ र्यत्वादुपादेयत्वावश्यंभावात् । यद्यपीश्वरो निमित्तकारणमेवेत्युक्तं तदप्ययुक्तम् । ‘यतो वा’ इत्याद्यभिन्ननिमित्तोपादानत्वप्रतिपादकश्रुतिविरोधात् । अतएव प्रधा- नोपादानवादोऽपि न युज्यते । प्रधानस्याचेतनत्वे 'तदैक्षत' इत्यादिचेतनोपादा- नलप्रतिपादकश्रुतिविरोधादुपेक्षणीयमियनेन शिष्टकोपो दर्शितः । 'हेतुमान्बक- वृत्तिश्च वाङ्मात्रेणापि नार्चयेत्' इति मनुवचनात् । तथाहीत्यादितत्त्वावबोधो- दयादित्यन्तं सुगमम् । मध्याह्वार्कमरीचिका विवेति श्लोकव्याख्यानेनैव व्याख्या- तप्रायत्वात् ॥ २२ ॥ विकारशङ्का त्वित्यादि । मुग्धवधूविकल्पविलसितं मुग्धवधूनां वालिकानां विकल्पः वचनानि संभाषणानि तेषां विलसितम् । स्त्राज्ज्ञातव्यः । एतदेवोपपादयति — तथाहि । अम्भ इति । एतत्परिदृश्यमानं ज गत्कार्यमत एवासत्यं मिथ्या अनिर्वचनीयमिति । कार्यत्वे हेतुमाह–मेयमिति । ज्ञानगोचरमित्यर्थः । यतो ज्ञानविषयोऽतः कार्यमित्यर्थः । अस्मिन्नर्थे दृष्टान्तः । अम्भ:- शीतकरः जलचन्द्रः, अन्तरिक्षनगरं गन्धर्वनगरम्, स्वप्नो लोकप्रसिद्धः, इन्द्रजालं मत्रादिनान्यथाविघट्यमानस्यान्यथीप्रतीतिः, आदिपदादन्ये भ्रमाः पीतशङ्खादयः त- द्वत् यथा जलचन्द्रादयो मेयत्वात्कार्यत्वादनिर्वचनीया एवं जगदिति ध्वनितम् । जगतः कार्यंत्वमुपपादयति । उदय उत्पत्तिः । ध्वंसो विनाशः, आदिपदाद्वृद्ध्यपचयौ । तद्युक्तं जगतो जडत्वादस्वप्रकाशतया ज्ञानविषयत्वन् । आत्मनस्तु स्वप्रकाशतया न ज्ञानविषयत्वमिति भावः । ननु अनित्यत्वेऽपि जगतो न कदाचिदनीदृशं जगदित्यु- तेर्जगत एवंरूपेणैव सर्वदा सत्त्वात्कथं मुक्तिरित्याशङ्कयाह — खात्मावबोध इति । स्वात्मावबोधे स्वप्रकाशे हरौ हरत्यज्ञानं तत्कार्यनिति हरिः परब्रह्म तस्मिन्नज्ञाते सति जगत्प्रभवत्युत्पयते, अथानन्तरं तत्त्वावबोधोदयात्तत्वावबोधस्याद्वितीयब्रह्मसाक्षात्कार- स्योदयादुत्पत्तेर्जगदस्तमयते प्रलीयते । उभयत्र दृष्टान्तः । शुक्तौ रूप्यमिव, सजि मा- लायां भुजगः सर्प इव । यथा मालाऽज्ञाने शुक्त्यज्ञाने च रज्जुरजते उत्पयेते तयोश्च तत्त्वावबोधादुभयं बिलीयते एवमात्माज्ञानाज्जगद्विवर्तते तज्ज्ञानाद्विलीयत इत्यर्थः । न कदाचिदित्युक्तिस्तु जगतो बहुकालावस्थायित्वेनोपपद्यते । अन्यथा अतिविरोध इति भावः ||२२|| पातञ्जलपूर्वपक्षमधिक्षिपति — विकारशङ्का त्विति । मुग्धवधूः पामरस्त्री तस्या विकल्पो मनोविकारस्तस्य विलसितमिव चेष्टितमिव विकारशङ्काशूकमपि नास्ति ।