पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० प्रबोधचन्द्रोदयम् शान्तं ज्योतिः कथमनुदितानन्दनित्यप्रकाशं विश्वोत्पत्तौ व्रजति विकृतिं निष्फलं निर्मलं च । तद्वन्नीलोत्पलदलरुच। मम्बुवाहावलीनां [षष्ठोऽङ्कः प्रादुर्भावे भवति नभसः कीदृशो वा विकारः ॥ २३ ॥ पुरुषः - साधु साधु प्रीणयति मानसं ममायं प्रज्ञावतो वि मर्शः । (उपनिषदंं प्रति) ततस्ततः । उपनिषत् – ततस्ताभिः सर्वाभिरेव क्रुद्धाभिरुक्तम् – अहो, विश्वविलयेन मुक्तिमेषा वदन्ती नास्तिकपथं प्रस्थिता निगृह्यता- मिति । ततः ससंरम्भं मां निग्रहीतुं प्रभाविताः सर्वाः । पुरुष: – (सत्रासम्) ततस्ततः । – रूपकमेत्तत् । अविमृश्यबचनप्रायमित्यर्थः ॥ - शान्तं ज्योतिरित्यादि । शान्तं निर्विकारं, ज्योतिः प्रकाशकं, अनुदितानन्दनित्यप्रकाशं अनुदितो जन्मरहितः । नित्य इति यावत् । 'निष्कलं निर्मलं शान्तम्' इति श्रुतेः । निष्कलं निर्विशे- षम् । उक्तमर्थं सोदाहरणं द्रढयति - तद्वदिति । नीलोत्पलदलरुचामम्बुवाहाव- लीनां मेघपतीनां प्रादुर्भावे सति वियतो विकारः कीदृशस्तद्वत् । तादृश इत्यर्थः । मेघकालिमा आकाशं यथा न स्पृशति तद्वदविद्या कालिमा ब्रह्म न स्पृशति । आनन्दो नाम निर्वहणसन्धेः सप्तममङ्गम् । मतान्तरैस्तिरोहितस्येष्टार्थस्य पुनः प्राप्तिः । तल्लक्षणं तु 'इष्टार्थसिद्धिरानन्दः' इति ॥ २३ ॥ पुरुष इत्यारभ्य आसन्नारोप्यत इति भावः । विकाराभावं प्रकटयति – यथाहि । शान्तमिति । शान्तनविकारि, ज्योतिः प्रकाशान्तरनिरपेक्षं, निष्कलं निरंशं, निर्मलज्ञानशून्यं च, अनुदितः न उदितोऽनुत्पन्नः अनस्तः न अरतः अतएव नित्यो यः प्रकाशस्तद्रूपम् । एतैविशेषणैः सर्वथा विकारयोग्यतापि नास्तीति सूचितम् । ईदृशं विश्वोत्पत्तौ वि- कृतिं विकारं कथं व्रजति प्राप्नोति । न कथमपीत्यर्थः । अमुमर्थं लोकसिद्धदृष्टान्तेन निश्चिनोति । शश्वन्निरन्तरं नीलोत्पलदलवत् रुक् कान्तियां ताः तासामम्बुवाहा मेघास्तेषामावलीनां पतीनां प्रादुर्भावे सत्युत्पत्तौ सत्वां नभस आकाशस्य कीदृशो वाकीदृशोऽपि विकारो भवति । अपितु नेत्यर्थः ॥ २३ ॥ प्रीणयति संतोषयति । विमर्शो विचारः । नास्तिकपथं वेदनिन्दितमार्गम् । निगृह्यतां वध्यताम् । ससंरम्भं सकोपं १ 'दितानस्त' इति पाठः । २ 'शत्' इति पाठः ।