पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ प्रबोधचन्द्रोदयम् [षष्ठोऽङ्कः मया तदेव कर्मोदाहृतम् । यस्माद्विश्वमित्यादि । ततस्ताभिः स- प्रकाशोपहासमुक्तम् । आः वाचाले, परमाणुभ्यो विश्वमुत्पद्यते । निमित्तकारणमीश्वरः । अन्यथा तु सक्रोधमुक्तम् । आः पापे, कथ- मीश्वरमेव विकारिणं कृत्वा विनाशधर्मिणमुपपादयसि । ननु रे प्र धानाद्विश्वोत्पत्तिः । - राजा - अहो तर्कमतयस्तर्कविद्या एतदपि न जानन्ति । सर्वे प्रमेयजातं घटादिवत्कार्यमिति घटादिवत्कार्यमिति परमाणुप्रधानोपादानकारणमप्यु- पेक्षणीयमेवेति । तथाहि — = रनुयुक्तया पृष्टया यस्माद्विश्वमुदेतीति व्याख्यातं तत्र तस्मिन्नर्थे उपहासः कृतः । आः वाचाले इति । आः निपातः कोपे । बाचालत्वं बहुगर्ह्यवाक्त्वम् । गालिप्रदानमेतत् । परमाणुभ्य इत्यादीश्वर इत्यन्तं सुगमम् । अन्यथा सांख्यया विद्यया | सक्क्रोधमित्यारभ्य विश्वोत्पत्तिरित्यन्तं सुगमम् । तदूषयति – अहो इत्यादि । परमाणूपादानवादस्तावन्न संगच्छते परमाणूनां दृश्यत्वेन का- पृष्टया कमोंदाहृतं कार्यमुक्तम् । किं तदित्याह – यस्मादिति । सप्रकाशोपहासं स्पष्टो- पहाससहितं यथा स्यात्तथेत्यर्थः । सोपहासामुक्ति प्रकटयति — आः वाचाले इति । आः इति कोपे । वाचालेऽनुपयुक्तभाषणशीले परमाणुभ्यश्चतुर्विधेभ्यो विश्वं जगदु- त्पद्यतेऽतस्त एवोपादानभूता इत्यर्थः । ईश्वरः कर्तृत्वान्निमित्तं कुलालवदिति भावः । अन्यया दूषणपुर:सरभेवमुत्तरितमित्याह – अन्ययेति । आः पापे ब्रह्मोपादानवादिनि ब्रह्मैवोपादानमिति मन्वाना मृद उपादानत्वाद्विकारित्वं यथा घटशरावादिरूपेण तथा ब्रह्मण उपादानत्वे विकारित्वान्नश्वरत्वमिति वदन्ती नापत्रपस इति तात्पर्यार्थः । सां- ख्यविद्ययेदमुत्तरमभाणीत्याह – नन्विति | रे इति धिक्संबोधने । प्रधानात्प्रकृतेरे- वोपादानाच्चिदवच्छिन्नाद्विश्वोत्पत्तिः पुरुषस्य तु पुष्करपलाशवन्निर्लेपत्वमिति भावः । उक्तं च–५ –'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृति: पुरुषः' इति । अनेककुतकोंपलवेऽवश्यापेक्षणीयो विवेक इत्याह- राजेति । राजा विवेकः । दुर्मतित्वमुपपादयति – एतदपीति । परमाणवश्च प्रधानं प्रकृतिश्च तयोरुपादानकारणं समवायिकारणं सर्व प्रमेयं प्रमाविषयः पक्ष उत्पद्यते कार्यत्वात् घटवत् यन्नैवं तन्नैवं यथा आत्मेत्यन्वयव्यतिरेकेण परमाणुप्रधानादीनामुत्पत्ति- मत्त्वे भावकार्यत्वात्सोपादानत्वं वाच्यम् । उपादानगवेषणायामन्यस्याभावादात्मैवोपा- दानम् । नच विकारित्वापत्तिरिति वाच्यम् । अधिष्ठातृत्वादित्यवगन्तव्यम् । विस्तर: शा- । १ 'दुर्मतयः' इति पाठः ।