पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् अन्या तु प्रकृतेर्विभज्य पुरुषस्योदाहरन्ती भिदां तत्त्वानां गणनापरा महदहंकारादिसर्गक्रमैः ॥ २१ ॥ २२७ पुरुषः - ततस्ततः । उपनिषत् — तथैवाहं ताः समुपस्थिताः । ताभिश्चानुयुक्तया आन्वीक्षिकी सच्छलजातिनिग्रहमयैः छलसहितजातिनिग्रहस्थानप्रचुरैर्न्यायैरनु- मानैर्जल्पं वादं वितण्डामपि तन्वती । अन्या तु सांख्यविद्या प्रकृतेर्मूलप्रकृतेः पुरुषस्य भिदां भेदं विविच्य उदाहरन्ती प्रतिपादयन्ती महदहंकारादिसर्गक्रमैः । आदिशब्देन पञ्चतन्मात्रादयो गृह्यन्ते । तत्त्वानां गणनापरा ‘पञ्चविंशतिरात्मा भवति' इति श्रुतेः । पञ्चविंशतितत्त्वानि प्रसिद्धानि । 'प्रकृतेर्महान् महतोऽहं- कारः अहंकारात्पञ्चतन्मात्राणि पञ्चतन्मात्रेभ्यो भूतानि भूतेभ्योऽखिलं जगत् इति सर्गक्रमः ॥ २१ ॥ तथैवाहमित्यादि । अहं कयाप्यभियुक्तया तर्क- विद्यानां मध्ये एकया । कयेयत्र वीप्सा किं कर्मेत्युक्तवतीत्यर्थः । ताभिस्तिसृभि क्लेशाद्यसंसृष्टत्वादि तत्कल्पनपरा । तत्प्रतिपादनपरेत्यर्थः । आत्मा निर्लेपः क्लेशैरप- रामृष्टोऽकर्ताऽभोक्तेत्येवमादि कल्पयन्ति पातञ्जलाः । उक्तं चोदयनाचार्यैः 'क्लेशक- र्मविपाकाशयैरपरामृष्टो निर्माणकायमधिष्ठाय संप्रदायप्रवर्तकोऽनुग्राहकश्च' इति । 'का- चिद्वित्वविशेषकल्पनपरा' इति पाठे द्वित्वाधुत्पत्तिविनाशक्षणगणनारूपा ये विशेषा- स्तत्कल्पनपरा तत्प्रतिपादनपरा अक्षपादमुनिप्रणीता विद्या । परा गौतमप्रणीता न्याय- विद्या | न्यायैः नीयते प्राप्यते विवक्षितोऽर्थो यैस्ते न्यायाः पञ्चावयवानुमानवाक्यानि तैर्वादं तत्त्वबुभुत्साकथां, छलं अर्थान्तरेण प्रयुक्तस्य शब्दस्यार्थान्तरवर्णनं, जातिरसदुत्तरं, निग्रहः पराहंकारनिराकरणं, तन्मयैः तत्प्रधानैः । न्यायैरिति निष्वपि संबन्धनीयम् । जल्पं विजिगीषुकथाम्, वितण्डामपि परपक्षदूषणावसानां, कथामपि न्यायैस्तर्कैस्त- न्वती विस्तारयन्ती । अन्या सांख्यनिर्मिता विद्या प्रकृतिं गुणत्रयसान्यावस्थां जगत्कार- णभूतां विभज्य पृथकृत्य पुरुषस्यात्मनो भिदां भेदमुदाहरन्ती कथयन्ती मयावले- कितेति पूर्वफक्किकास्थेनान्वयस्त्रिष्वपि योजनीयः । कीदृशी सांख्यविद्या । महदहंका- रादीनां सर्गः सृष्टिस्तत्क्रमैः तत्त्वानां पञ्चविंशतितत्त्वानां गणना संख्या तस्यां परा सावधाना प्रकृतेर्महान् महतोऽहंकारः अहंकारात्पञ्चतन्मात्राणि एवं गणनापरेत्यर्थः । तावता सांख्यपातञ्जलन्यायवैशेषिकशास्त्राणां क्षणलवादिगणनयैवायुः पर्यवसानात् पुरुषार्थोपयोगित्वाभावादनादरणीयत्वं तेषामिति भावः ॥ २१ ॥ तथैवाहमिति | मी- मांसामिवेत्यर्थः । ता विद्याः प्रति समुपस्थिता आगता अनुयुक्तया किं ते कार्यमिति १ 'प्रकृतिं' इति पाठः ।