पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [षष्ठोऽङ्कः . मीमांसाहृदयाधिदैवतेन कुमारिलखामिनैवं प्रोक्तम् । देवि, नेयं क- र्मोपयुक्तं पुरुषमुपनयति, किंतु अकर्तारमभोक्तारमीश्वरम् । न चा- सावीश्वरः कर्मसूपयुज्यते । ततोऽपरेणोक्तम् । अथ किं लौकिका - त्पुरुषादन्य ईश्वरो नामास्ति । ततस्तेन विहस्य पुनरुक्तम् । अस्ति । तथाहि — २२४ एकः पश्यति चेष्टितानि जगतामन्यस्तु मोहान्धधी- रेकः कर्मफलानि वाञ्छति ददात्यन्यस्तु तान्यर्थिने । प्रसिद्धप्रतिष्ठेन सर्वविद्वज्जनपूज्येन मीमांसाहृदयाधिदैवतेन । पूर्वमीमांसातत्त्व- वेदिनेत्यर्थः । कुमारिलखामिना भट्टाचार्येणैवमुक्तं वक्ष्यमाणम् । देवीति भट्टाचार्य- वाक्यमेतत् । हे देवि पूर्वमीमांसे, इयमुपनिषत् कर्मोपयुक्तं पुरुषं नोपनयति किंतु अकर्तारमभोक्तारमीश्वरम् । न चासौ कर्मसु युज्यत इति । अयमर्थः । आचार्यैः सिद्धव्युत्पत्त्यङ्गीकारात् सिद्धवाक्यानां स्वार्थे तात्पर्याङ्गीकारात् 'सत्यं ज्ञानमनन्त- मानन्दं ब्रह्मेत्यादिपदानां परस्परार्थप्रतिपादनद्वारा अर्थबोधाङ्गीकारात् । 'के- वलो निर्गुणश्च' इत्यादिश्रुतिसहस्रपर्यालोचनया जीवव्यतिरिक्तेश्वरपरा एव वेदान्ता इति वक्तुं शक्यत इति । ननु ईश्वरत्वं नाम नाधिकारित्वसंपादकं किंतु कर्तृत्वभोक्तृत्वसंपादकम् । अतश्च कर्तारं भोक्तारं ईश्वरं प्रतिपादयति उपनि- षदिति बालिशभाषितप्रायमेतदित्याशङ्कते प्रभाकरशिष्यः शालिनाथः । अथ किं लौकिकात्पुरुषात् ईश्वरो नामान्योऽस्तीति । लौकिकाल्लोकान्तरफलोपभोक्तुः । ततस्तेनेति । ततस्तदनन्तरं तेन भट्टाचार्येण स शिष्यः प्रभाकरो वेदान्तिनां मतस्वरूपं न जानातीति विहस्योक्तमित्यर्थः । वेदान्तिनां मतस्वरूपं स्वमनी- षिकयोल्लिखितं प्रभाकरस्य पुरः प्रतिपादयति – अस्ति तथाहि । एक इति । एक ईश्वरो जगतां चेष्टितानि पश्यति । अन्यस्तु जीवात्मा चेष्टितानि करोति । पादितं तदाह — देवीति । उपनयति प्रतिपादयति । तहिं कीदृशं प्रतिपादयतीत्याश- ङ्क्याह—किंत्विति । ननु अकर्ता अभोक्तैव सिद्ध्यतां का हानिस्तत्राह – न चा साविति । ननु अकर्तुरभोक्तुरीश्वरस्य कर्मोपयोगे वाधकाभावात्तादृशस्यापि कर्मोप- योगितास्त्वित्याङ्कयाह—ततोऽपरेणेति । अपरेण मीमांसैकदेशिमतावलम्बिना । कि- मुक्तमित्याह — अथेति । लौकिकालोकप्रसिद्धात् पुरुषाज्जीवादन्यो नामेश्वर: किमस्ति । नास्तीत्यर्थः । तेन कुमारिलस्वामिना जीवाइन्य ईश्वरो नास्तीति श्रुत्वा विहस्येत्यु- क्तम् । किमुक्तं तदाह — अस्तीति । जीवादन्य ईश्वरोऽस्तीत्यर्थः । तदेवाह—त- थाहि । एक इति । एक ईश्वरो जगतां चेष्टितानि कर्माणि पश्यति । विश्वसाक्षित्वा