पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् एकः कर्मसु शिष्यते तनुभृतां शास्तेव देवोऽपरो निःसङ्गः पुरुषः क्रियासु स कथं कर्तेति संभाव्यते ॥ १९ ॥ राजा -- (सहर्षम् ) साधु कुमारिलखामिन्, साधुप्रज्ञोऽस्या- युष्मन्, द्वौ तौ सुपर्णौ सयुजौ सखायौ समानवृक्षं परिषखजाते । २२५ - अतएव महामोहान्धधीः । एको जीवात्मा कर्मफलानि वाञ्छति । 'स्वर्गकामो यजेत' इत्यत्र स्वर्गकामोऽहं अतो मम खर्गः साध्य इत्यादिकाः कर्मवाञ्छाः । अन्यस्त्वीश्वरस्तानि कर्मफलान्यर्थिनेऽधिकारिणे ददाति । अयमर्थः । 'स्वर्गकामो यजेत' इत्यत्र यागस्वर्गयोः साध्यसाधनभावः प्रतीयते । साध्यसाधनभावो यागस्य क्षणिकत्वात् स्वर्गस्य देहान्तरकालान्तरभाविवादुभयोर्न सङ्गच्छत इति कृत्वास्माभिर्मध्ये अपूर्वं कल्प्यते फलप्रदातृत्वेन | तत्तु न सहन्ते वेदान्तिनः । अपूर्वस्याचेतनत्वाज्जडत्वात्फलदातृत्वं न संगच्छत इति कृप्तस्यैव परमेश्वरस्य फलदातृत्वं लाघवात्कल्प्यत इति वेदान्तिनां हृदयमिति । एको देवः कर्मसु शिष्यते योज्यते । अपरो देवस्तनुभृतां शास्तेव ममेदं कार्यमिति लोके प्रवर्तते । अनेन लौकिकात्पुरुषादीश्वरो नामान्योऽस्तीति चोयं पराकृतमपि पुनः परा- करोति — निःसङ्ग इत्यादिना ॥ १९ ॥ स्वमतस्वरूपनिरूपकं स्तौति । साधु साध्वित्यादि । वेदान्तमार्ग जानासीत्यर्थः । कुमारिलश्लोकं श्रुतिशिरोनिष्ठतया प्रतिपादयति — द्वौ ताविति । तथा च श्रुतिः - 'द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं खाद्वत्त्यनश्नन्नन्यो अभिचाकशीति' दित्यर्थः । तु पुनरन्यो जीवो मोहान्धधीमोंहावृतज्ञानः । तथोक्तं गीतायाम् – 'अ- ज्ञानेनावृतं ज्ञातं तेन मुह्यन्ति जन्तवः' इति । एको जीवः कर्मफलानि पुत्रपश्चा- दीनि वाञ्छति कामयति । तु पुनरन्य ईश्वरस्तानि कर्नफलान्यर्थिनेऽभिलाषवते द- दाति । एको जीवः कर्मसु ज्योतिष्टोमादिषु शिष्यते नियोज्यते । आज्ञाप्यत इति यावत् | अपरो देव ईश्वरस्तनुभृतां प्राणिनां शास्तैव । एवं जीवादतिविलक्षण ईश्वरो लौकिकपुरुपादन्यो नेति कथं संभावनापीत्यत आह — निःसङ्ग इति । निःसङ्गः तङ्गरहित: ‘असङ्गो ह्ययं पुरुषः' इत्यादिश्रुतेः । पुरुषः पुराणः पूर्णत्वाद्वा पुरुषः पर- मात्मा क्रियासु कर्मसु कर्तेति कथं संभाव्यते । न कथंचित्संभावयितुमपि शक्यत इ- त्यर्थः ॥ १९ ॥ राजा विवेकः । साधुप्रशोस्युत्कृष्टप्रज्ञोऽसि । खोक्तऽर्थे संमतित्वेनार्थतः श्रुतिमवतारयति—द्वौ ताविति । तौ प्रसिद्धौ सुपण स॒ष्ठु पर्णं गतिर्थयोस्तौ । ‘पर्ण गतौ सहाये च पतत्राङ्गरुहेषु च' इति बिश्वः । अव्याहतज्ञानावित्यर्थः । सयुजौ सहयो- -