पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१.६ प्रबोधचन्द्रोदयम् [ षष्ठोऽङ्कः भारवाहिनी मे ज्ञास्यति तत्त्वम् । अतं एवास्याः सन्निधौ कानिचि- द्वासराणि नयामि । पुरुषः - ततस्ततः । उपनिषत् - ततस्तामहमुपस्थिता । तया चाहमुक्तास्मि । भद्रे, किं ते समीहितमिति । ततो मयोक्तम् । आर्ये, अनाथास्मि त्वयि निवस्तुमिच्छामीति | १ पुरुषः - ततस्ततः । उपनिषत् — ततो मयोक्तम् । यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनर्लीयते भासा यस्य जगद्विभाति सहजानन्दोज्ज्वलं यन्महः । शान्तं शाश्वतमक्रियं यमपुनर्भावाय भूतेश्वरं द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम् ॥ १४ ॥ ज्ञविद्या कल्पसूत्रं अध्वनि मार्गे मया दृष्टा ॥ १३ ॥ अपि नामैषेत्यत्र अपिः संभा- बनायाम् । एषा यज्ञविद्याऽनेकेषां पुस्तकानां भारस्तान्वहति तद्बह्नशीला | 'सुप्य जातौ णिनिस्ताच्छील्ये' इति णिनिः । अत इत्यारभ्य मयोक्तमित्यन्तं सुगमम् ॥ यस्मादिति । यस्माद्विश्वमित्यादि पुनर्लीयत इत्यन्तेन 'जन्माद्यस्य यतः' इति सूत्रार्थ उपवर्णितः । भासा यस्येत्यादिना 'तमेव भान्तमनु भाति सर्व तस्य भासा सर्वमिदं विभाति' इति श्रुत्यर्थ उपवर्णितः । संहजानन्दोज्वलं य न्मह् इत्यनेन स्वरूपमुक्तम् । शान्तमुदासीनम् । अक्रियं निर्विकारम् । शा- श्वतं निलम् । अपुनर्भावाय मुक्तये । भूतेश्वरं जगन्नियन्तारम् । द्वैतध्वान्तम- पास्य द्वितैव द्वैतं भेदस्तन्निदानं ध्वान्तमविद्या तदपास्य निरस्य कृतमेभिः कृतिनः । सोमोऽग्निष्टोमो मुखमाद्यो येषां तादृशा ये गखा यागास्तैः किल निश्चयेन परिवृत। व्याप्ता । पुनः कीदृशी यज्ञविद्या । कर्मकाण्डे व्यादिष्टोपदर्शिता पद्धतिरितिकर्तव्य- ताक्रमो यस्याः सा ॥ १३ ॥ चिन्तितं विचारितम् । किं तदाह अपीति । एषा यज्ञ- विद्या । नयामि परिपालयामि । उपस्थिता प्राप्ता । समीहितमीप्सितं त्वयि त्वत्समीपे किं ते कर्मेति । ते तव किं कर्म कार्यमित्यर्थः । किमुक्तमित्याह – यस्मादिति । तं पुरुषमात्मानम् । अहमित्युत्तमपुरुषसंबन्धालभ्यते । प्रस्तौमि निरूपयामि । तं कम् । यस्माद्विश्वं जगदुदेत्युत्पद्यते, यत्र यस्मिन्नात्मा रमते संतुष्टस्तिष्ठति, यस्मिन् पुनरन्ते लीयते लयं प्राप्नोति, यस्य भासा ज्योतिषा जगद्विभाति प्रकाशते, 'यस्य भासा सर्वमिदं विभाति' इति श्रुतेः । यन्महो यस्य तेजः सहजानन्दोज्ज्वलं सह- ।