पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् ततस्तयोक्तम्– पुमानकर्ता कथमीश्वरो भवेत् क्रिया भवोच्छेदकरी न वस्तुधीः । २१७ 'इष्टादिभ्यश्च' इति इनिः । कृतकृत्या योगेश्वरा योगिनो ये पुरुषं यान्ति यदैक्यं लभन्ते तं प्रस्तौमीयन्वयः ॥ १४ ॥ पुमानकर्तेत्यादि । पुमानात्मा अकर्ता कर्तृत्वायोग्यश्चेदीश्वरः कथं भवेत् जगत्सर्जने अधिकारी कथं भवेत् । अयमर्थः । यस्यैश्वर्यं ममेदमिति मादर्थ्य ज्ञानमस्ति तस्येदं करिष्य इति कर्तृत्वधीर्नियता । कर्तृत्वाभावे ऐश्वर्यमपि न स्यादित्यर्थः । अतो वेदान्ते ईश्वरः सन् कर्ता न भवतीति भावः । किंच भवोच्छेदकरी क्रियैव न तु स्वरूपज्ञानमित्यर्थः । तदुक्तं भगवता धूर्तस्वामिना – ‘पञ्चहोतारं चाग्नीध्रे स्वर्गकामः स जुहुयात्' इति । एतत्सूत्रव्याख्याने यः स्वर्गकामः स्यात् स पञ्चहोतारं पुरा प्रातरनुवाकादाग्नीधे जुहुयादिति स्वर्गशब्दस्यापरिमितनिःश्रेय- सरूपमोक्षवाचित्वात् ‘संवत्सरः सुवर्गो लोकः' इति कालात्मकब्रह्म स्वरूपान- न्दपरत्वान्मोक्षार्थं च सर्वदा यत्नः कार्य इति रामाण्डारकभाष्ये 'अथातो दर्शपूर्णमासौ' इत्येतब्याख्याने दर्शपूर्णमासयोः परमामेव काष्ठां गच्छतीय- पवर्गार्थत्वात् । 'स्वर्गकामो दर्शपूर्णमासाभ्याम्' इत्यादिषु स्वर्गशब्दस्याप- रिमितनिःश्रेयसवरूपमोक्षपरत्वेनाङ्गीकारादिति 'कर्मणैव हि संसिद्धिमास्थिता जनकादयः' इत्यादिस्मृतिषु च कर्मसाध्यत्वेनैव मोक्षस्य प्रतीतेः । किंच जीवन्मुक्तिः कैवल्यमुक्तिरपि कर्मसाध्यैव । तथाच श्रूयते – 'अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति' इति अक्षय्यं सुकृतं नित्यसुखं मोक्षरूपं तज्जीवन्मुक्तौ कैवल्यमुक्तौ च समम् । तथा च चातुर्मास्ये श्रूयते – 'प्रचातुर्मास्य- याजी' इत्यारभ्य 'प्रजापतिर्वावैषः' इत्यन्ता श्रुतिः । अस्याः श्रुतेरर्थः । प्रचातु- जायते इति सहज: स्वाभाविक आनन्दः सुखं तद्रूप उज्ज्वल : प्रकाशो यस्य । नित्य- सुखप्रकाशाभिन्न इत्यर्थः । शान्तं विकारशून्यं, शाश्वतमविनाशि, अक्रियं क्रियारहितम् । पुनस्तं कम् । कृतिनः कुशला यं भूतेश्वरं भूतानामीश्वरं नियन्तारमात्मानमपुनर्भवाय संसारविच्छित्तये यान्ति प्राप्नुवन्ति । किं कृत्वा । द्वैतं भेदः स एव ध्वान्तं तमः अपास्य तिरस्कृत्य ॥ १४॥ यज्ञविद्या स्वसिद्धान्तमाविष्करोति – पुमानिति । पुमानात्मा अकर्ता कर्तृत्वशून्यः कथमीश्वरो भवेत् । न कथमपीत्यर्थः । तव मते ईश्वरत्वं कर्तृत्वायुपाधिवि- शिष्टं कर्तृत्वाद्यभावे तदेव न सिच्यतीति भावः । ननु तर्हि भूतेश्वराराधनं विना कथं संसारनिरासस्तत्राह । क्रिया ज्योतिष्टोमादिरूपा सैव भवोच्छेदकरी संसारनाशकरी । ‘अपाम सोममगृता अभूम' इत्यादिश्रुतेः । ननु वस्तुशानमेव संसारनाशक र मिति -