पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् ते स्वेच्छया मम गिरां द्रविडाङ्गनोक्त- वाचामिवार्थमविचार्य विकल्पयन्ति ॥ १२ ॥ तेन केवलं तेषां परार्थग्रहणप्रयोजनमेव मद्विचारणम् । पुरुषः - ततस्ततः । उपनिषत् ततः कदाचित् । कृष्णाजिनाग्नि समिदाज्यजुहूसुवादि- पात्रैस्तथेष्टिपशुसोममुखैर्मखैश्च । दृष्टा मया परिवृताखिल कर्मकाण्ड- व्यादिष्टपद्धतिरथाध्वनि यज्ञविद्या ॥ १३ ॥ २१५ पुरुषः - ततस्ततः । - उपनिषत् – ततो मया चिन्तितम् । अपि नामैषा पुस्तक- निषदां द्रविडाङ्गनाया वाचामिवार्थमविचार्य वृत्तमज्ञाला विकल्पयन्ति । यथा द्राविडभाषामजानाना आन्ध्रादयो द्राविडभाषां श्रुत्वा विकल्पान्कुर्वन्ति तद्न्मू- र्खमुखरा अपि । मूर्खा बालिशाः, मुखरा अप्रियंवदाः । विशेषणसमासः । मद्वाचि विकल्पान्कुर्वन्तीत्यर्थः । तेषामभिप्रायः परार्थग्रहणैकप्रयोजनमेवेति मम निश्चय इत्यर्थः ॥१२॥ अतःपरं पृच्छति ततस्तत इति । इत्यारभ्य परिवृतेत्यन्तं सुगमम् । अखिलेषु कर्मकाण्डेषु व्यादिष्टानामुपदिष्टानामर्थानां प्रदर्शकत्वात्पद्धतिरिव पद्धतिर्य- उत्तरत्वेनोत्तरार्धमवतारयति पूर्व श्लोकस्य — ते स्वेच्छयेति । मूर्खमुखरा: स्वेच्छ्या गुरूपसत्तिं विना मम गिरां वाचामर्थमविचार्य विकल्पयन्ति विशेषेण कल्पयन्ति । तत्र दृष्टान्तः । द्रविडा द्रविडदेशस्थाः पुरुषास्तेषामङ्गनाः स्त्रियस्ताभिरुक्ता वाच- स्तासामिव । द्रविडस्त्रियः पुरुषापेक्षयाऽस्पष्टवाचो भवन्तीति ता एव दृष्टान्तिताः ॥ १२ ॥ ननु तर्हि तेषां बहिर्मुखानामुपनिषदर्थविचारो व्यर्थ इत्याशयेनाह तेनेति । तेषां बहिर्मुखानां मद्विचारणं मदर्थविचारणं परेषामर्थो धनं तस्य ग्रहणं तदेव प्रयोजनं परधनग्रहणार्थमित्यर्थः । पुनरप्यागच्छन्त्या कुत्रचिन्मया कानिचिद्वा- सराण्यतिक्रमणीयानीति मनसि विचार्य यज्ञविद्यासमीपमागतमित्याह – कृष्णाजि - नेति । अथानन्तरं मयाध्वनि मार्गे यज्ञविद्या दृष्टा । कीदृशी यज्ञविद्या | कृष्णाजिनं कृष्णमृगचर्म, अग्नयो गार्हपत्यादयः, समिधः, आज्यं घृतम्, जुहूः, स्रुवः, आदिपदात् उपभृत् ध्रुवा इत्यादीनि पात्राणि तैस्तथा इष्टिर्दर्शपूर्णमासेष्टिः, पशुः निरूढपशुः, १. 'किल' इति पाठः ।