पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवोधचन्द्रोदयम् [पष्ठोऽङ्कः शान्तिः– एष देवि, देवेन सह खामी विविक्तो वर्तते । तदु- पसर्पतु देवी । उपनिषत् – (उपसर्पति ।) शान्तिः २१४ खामिन् एषोपनिषदेवी पादवन्दनायागता । - पुरुषः - न खलु न खलु । यतो मातेयमस्माकं तत्त्वावबोधो- दयेन । तदेषैवास्माकं नमस्या । अथवा — अनुग्रह विधौ देव्या मातुश्च महदन्तरम् । माता गाढं निबध्नाति बन्धं देवी निकृन्तति ॥ ११ ॥ उपनिषत् – (विवेकमालोक्य नमस्कूल दूरे समुपविशति ।) पुरुषः– अम्ब, कथ्यताम् । क भवत्या नीता एते दिवसाः । उपनिषत् खामिन्, नीतान्यमूनि मठचत्वरशून्य देवा- गारेषु मूर्खमुखरैः सह वासराणि । - पुरुष: – अथ ते जानन्ति किमपि भवत्यास्तत्त्वम् । उपनिषत् — न खलु । किंतु कर्मत्वेन विवक्षितत्वात्संशृणुतेति परस्मैपदम् ॥ १० ॥ तद्भवानियारम्य आगते- त्यन्तं सुगमम् । न खल्चिति । द्विरुक्तिराभीक्ष्ण्ये । यत इत्यारभ्य निकृन्त- तीयन्तं सुगमम् ॥ ११ ॥ अत्र पुरुषस्योपनिषद्देव्यामयन्तप्रसादप्रतिपाद- नात्पर्युपासनाख्यं निर्वहणसन्धेः षष्टमङ्गम् । 'प्रसादः पर्युपासनम्' इति लक्षणात् । नमस्कृत्येत्यारभ्य वासराणीत्यन्तं सुगमम् । अथ ते जानन्तीत्यादि । अथेति प्रश्ने । किंत्वित्यादि । ते तार्किकादयः स्वेच्छया स्वमलनुसारेण मम गिरामुप- दर्शितम् ॥ १० ॥ ज्ञानसंवन्धात्पितृत्वमेव त्वय्युचितमित्याह – तद्भवानिति । देवेन विवेकेन । स्वामी पुरुषः । अनुग्रहेति । अनुग्रहविधौ अनुग्रहे कर्तव्ये देव्या उप- निषद: मातुश्च महदन्तरं महान्भेदः । अन्तरमेवाह – मातेति । निबध्नाति संसारे प्रक्षिपति । देवी उपनिषत् बन्धं संसारं निकृन्तति छिनत्ति ॥ ११ ॥ क्व कुन ।— नीतानीति । अमून्येतानि वासराणि दिनानि, मठा अवधूतनिवासस्थानानि, चत्वरा नानाविधजनोपवेशस्थानानि, शून्यदेवागाराणि शून्यदेवालयानि एपु मूर्खाश्व ते मुखराश्च वाचालास्तैः सह नीतान्यतिवाहितानि । तत्त्वं महिमानम् । न खल्चिति । जानन्तीति शेषः । तर्हि कथमतिवाहितानीति पृच्छति — किंत्विति । -