पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् राजा - कथं पुनस्तर्कविद्याया भयम् । श्रद्धा – देव, ईममर्थं सैव प्रस्तोष्यति । तदागच्छतु देवः । एष स्वामी त्वदागमनमेव ध्यायन्विविक्ते वर्तते । राजा – ( उपसृय ।) खामिन्, अभिवादये । पुरुषः– वत्स, प्रक्रमविरुद्धोऽयं समुदाचारः । यतो ज्ञानवृ- द्धतया भवानेवास्माकमुपदेशदानेन पितृभावमापन्नः । कुतः- पुरा हि धर्माध्वनि नष्टसंज्ञा देवास्तमर्थं तनयानपृच्छन् । ज्ञानेन सम्यक्परिगृह्य चैतान् 8 हे पुत्रकाः संशृणुतेत्यवोचन् ॥ १० ॥ तद्भवान्पितृत्वेनास्मासु वर्ततामित्येष एव धर्मः । २१३ = किमित्यर्थः । देव गृहीतोद्देशैव ज्ञातप्रदेशा एव कथं न तां द्रक्ष्यति । द्रक्ष्यत एवेत्यर्थः । राजेत्यादि प्रविष्टेयन्तं सुगमम् । प्रविष्टेयनेन तत्रत्यानां गीता नोपनिषदित्यर्थः । कथं पुनरिति । सैव प्रस्तोष्यति सैवोपनिषद्देवी भीतैव जानाति भयहेतुमिति भावः । तवागमनमनुध्यायन्प्रतीक्ष्यमाणः । लक्षणे शतृप्र- ययः । उपसृत्येत्यादि । प्रक्रमविरुद्धोऽयमिति पूज्यापूज्यव्यतिक्रमोऽभूदित्यर्थः । समुदाचारः सदाचारः । उपदेशदानेन पितृत्वमापन्न इति ज्ञानोपदेष्टापि पितैव । तत्र हरिवंशपुराणं संवादयति- पुरा हि धर्माध्वनीति । प्रजापतिर्ब्रह्मा दे - वान् सृष्ट्वा केनचिन्निमित्तेनाज्ञानिनो भूयासुरिति ताञ्शशाप । तदनन्तरं ताननुगृ- ह्णन् देवानामन्योन्यं पितृत्वं पुत्रत्वं च ददावित्यादि कथानुसन्धेया। अत्र वाक्यार्थस्य । ! वेतिं । कुत्र कुत्रेत्यर्थः । अनुप्रविष्टान्तर्गता । तर्कविद्याया इति पञ्चमी । प्रस्तोष्यति वर्णयिष्यति । कथयिष्यतीति यावत् । तदागच्छतु देवो विवेकः । पुरुषनिकटनिति शेषः । एष स्वामी पुरुषः । विविक्त एकान्ते । प्रक्रमविरुद्ध उपक्रमविरुद्धः । समुदाचार: शिष्टाचारः । पितृभावं पितृत्वमापन्नः प्राप्तः । पुरा हीति । देवा भूदेवाः पुरा पूर्व- काले । हि निश्चितं । धर्माध्वनि धर्ममार्गे नष्टसंज्ञा: लुप्तबोधास्तमर्थं तनयान्पुत्रानपृच्छन् । ते च पुत्रा एतान्प्रश्नकर्तॄन्शानेन हेतुना परिगृह्य स्वीकृत्य संशृणुत सम्यगधिगच्छतेत्यवो- चन्नवदन् । तथोक्तं मनुना- अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः । पुत्रका इति होवाच ज्ञानेन परिगृह्य तान्' इति । एतेनान्यसंबन्धापेक्षया ज्ञानसंबन्धस्य महत्त्वं १ 'तमर्थ' इति पाठः ।