पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ प्रबोधचन्द्रोदयम् [षष्ठोऽङ्कः श्रद्धा — पुत्रि, तथा दुरवस्थागतेनापि महामोहहतकेन खा- मिनः प्ररोचनाय मधुमत्या विद्यया सहोपसर्गाः प्रेषिताः । अयम- भिप्राय: । यद्येतेष्वासक्तः स्वामी विवेक उपनिषञ्चिन्तामपि न करिष्यतीति । शान्तिः — ततस्ततः । ऽभूदिति भावः । अथ तानुपसर्गानिति । उपसर्गा मोहका धर्माः । एतेषां मनो- मयधर्माणां को वृत्तान्तः । मनोमयधर्माणां किंचित्किंचिदवशिष्यमाणत्वादवशि- ष्टानां को वृत्तान्त इत्यर्थः । पुत्रीत्यादि । तथा दुरवस्थां तादृशीं दुर्गतिं गते- नापन्नेन । 'द्वितीयाश्रिता -' इत्यादिना समासः । प्ररोचनाय वञ्चनाय | मधुमल्या मधुमतीनामकया विद्ययोपासनाज्ञानेनोपसर्गा विघ्नहेतवः प्रेषिताः । स्वामी पुरुषः । आसक्तोऽनुरक्तः । विवेकश्वोपनिषदि चिन्तां न करिष्यति । तैरुपसर्गैः स्वामि- समीपं गत्वा स्वामिविषये काप्यनिर्वचनीयैन्द्रजालिकीसदृशी ऐन्द्रजालिकी । वि- नयादिलात्स्वार्थे ठक् । 'टिड्डाणज् -' इत्यादिना डीप् । एतदुक्तं भवति । मधुम- तीनां मधुकाण्डोक्तानां पञ्चानां विद्यानां मनश्चक्षुःश्रोत्रवाग्विद्यदुपासनानां मधुम- तीशब्दवाच्यानामुपसंग्रहः । तथाहि बृहदारण्यके सप्तमो मधुकाण्डः । मधुनामे- न्द्रियाधिष्ठानदेवता तदुपासनाविधायकत्वात्तदुपनिषदि मधुमतीत्युच्यते । 'मनो ब्रह्मेत्युपासीत' इति मनस उपासनया जीवात्मनो मनस्त्वसिद्धेर्मनोराज्यमप्युपास- नफलम् । चक्षुरुपासनया दूरदर्शित्वम्, थोत्रोपासनया दूरश्रवणम्, वागुपास- नया नूतनवाग्वैखरीविजृम्भणम्, पाणीन्द्रियोपासनया हत्यग्रेण सूर्यमण्डलसशः पादोपासनया पादेनैव समुद्रतरणं दूराद्गमनं च । एवमाद्यवशिष्टं बृहदारण्यभाष्ये मधुकाण्डे विद्यासागरीतो द्रष्टव्यम् । एतानि फलानि योगिनन्तुच्छान्येव काल्पनि- कत्वात् । कल्पितत्वं देशतः कालतो वस्तुतश्चापरिच्छिन्नस्य प्रत्यगात्मनः सर्ववस्तु- सान्निध्याद्देशविप्रकृष्टं कालविप्रकृष्टं नास्तीत्युपासना आस्तामत्र । फलवति 'श्रेयांसि > 3 । वाच्यमधिकारान्तरसंबद्धस्य न ज्ञानाधिकारसंबन्धो विनियोगविरोधादितिं पशुप्रकरणे पठितात् 'खादिरो यूपो भवति' इति वाक्यात्खादिरत्वं ऋत्वर्थमपि तस्मिन्नेव प्रकरणे पठितेन 'खादिरं वीर्यकामस्य यूपं कुर्वीत' इति वाक्यान्तरेण वीर्यशेषतया विधीयते, तद्वन्न विनियोगविरोध इत्यलं विस्तरेण | सोपसर्गस्य महामोहवृत्तान्तशेषस्य शान्ति- द्वारा प्रश्नमवतारयति — शान्तिरिति । निलीयाच्छाद्य । तेषामुपसर्गाणां प्ररोचनाय प्रतारणाय । मधुमत्या कयाचित्सिद्ध्या । एतेषूपसर्गेषु । उपसर्गा अन्तराया: प्रातिभा. दयः—‘प्रातिभः श्रावणो देवो भ्रमावर्ती तथापरौ । पञ्चैते योगिनां योगविघ्नं कु- च॑न्ति सर्वदा' इति दत्तात्रेयेणोक्तम् । कापि कमनीयरूपा ऐन्द्रजालिक्यविद्यमानार्थ-