पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् २०५ श्रद्धा - ततस्तैर्गत्वा कापि खामिन्यैन्द्रजालिकी विद्योपदर्शिता । तथाहि, शब्दानेष शृणोति योजनशतादाविर्भवन्ति स्वत- स्तारता वेदपुराणभारतकथास्तर्कादयो वाङ्मयाः । प्रश्नाति स्वयमिच्छया शुचिपदैः शास्त्राणि काव्यानि वा लोकान्भ्राम्यति पश्यति स्फुटरुचो रत्नस्थलीमैरवीः ॥ ५ ॥ मधुमतीं च भूमिमापन्नः स्थानाभिमानिनीभिर्देवताभिरुपच्छन्द्यते बहुविघ्नानि 'इति श्रुतेः। ‘तस्मादेषां तन्मयं यदेतन्मनुष्या विद्युः' इति श्रुतेश्च योगिनां योगसिद्धिविघ्नकारीण्युपासनाकर्मफलानि । नाटके निर्वहणसंधावद्भुतरसस्य प्रति- पाद्यवादैन्द्रजालिक विद्यात्मकपात्रप्रवेश इति ध्येयम् । ऐन्द्रजालिकं दूरश्रवणादिकं निरूपयति-शब्दानेष शृणोतीत्यादि । एष मधुमतीविद्या मोहितः पुरुषः योजन- शताच्छब्दाञ्शृणोति खतो निर्हेतुकम् । उपदेशं विनेत्यर्थः । तास्ता अत्यन्तप्रसिद्धाः वेदा ऋग्वेदादयः, पुरणानि ब्राह्मादीनि, भारतकथा गाथासप्तशत्युपाख्यानादयः, वाङ्मया वाक्यप्रपञ्चाः । स्वार्थे मयट् | एकाचो मयटमिच्छन्ति । स्वत एवाविर्भ- वन्तीत्यर्थः । स्वयं स्वतएव शुचिपदैः । सरसैः पदैरित्यर्थः । शास्त्राणि भाट्टप्राभा- कराणि शास्त्रसदृशानि, काव्यानि रघुवंशादीनि | सादृश्यात्स्वयमेव निबध्नातीति। लो- कानूर्ध्वाधोविभक्तान् चतुर्दश भुवनानि भ्राम्यत्यप्रतिबन्धेन भ्रमति | लोकानित्यत्र 'देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' इति द्वितीया । मैरवीः । 'तस्येदम्' इत्यण् । 'टिड्ढाणञ्' - इति ङीप् मेरुसंबन्धिनीः स्फुटरुचो रत्नस्थलीः पश्यति च ॥५॥ मधुमतीं भूमिं भूमिकां कक्षान्तरम् । मधुमत्याः कक्षान्तरत्वं पुरस्तान्निवेदयि- प्यते । मधुमतीभूमिकामारूढः सन् स्थानामिमानिनीमिर्मनश्चक्षुःश्रोत्रवागधि देवताभिः प्रजापतिप्रभृतिभिर्भैरवादिस्थानस्थिताभिर्देवतामिरिति च गम्यते । 1 प्रकाशरूपा । शब्दानिति । एष पुरुषो योजनानां शतं क्रोशचतुष्टयमेकं योजनं, एवं योजनशतं शब्दान् शृ॒णोत्याकर्णयति । अतिप्रसिद्धा अश्रुता वेदपुराणभारतकथा आविर्भ- वन्ति प्रकटीभवन्ति, वाङ्मयाः वाग्विकारास्तर्कादय आविर्भवन्ति स्फुरन्ति, शुचिभि- र्व्याकरणशुद्धैः पदैः शास्त्राणि काव्यानि वा इच्छया स्वयं ग्रश्नाति रचयति, लोकान्भू- रादीन्भ्राम्यति गच्छति, मेरोरिमा मैरव्यस्ता रत्नस्थली रत्नखचितानुपरितनभूभागा- न्स्फुटरुचो देदीप्यमानान्पश्यति ॥ ५ ॥ मधुमत्या चेति । मधुमत्या सिद्ध्या कल्पिता या भूमिरतामापन्नः प्राप्तः सन् इत्यध्याहारः । स्थानाभिमानिनीभिर्देव- १ 'भवन्त्यता:' इति पाठः । २ 'मधुमत्या' इति पाठः ।