पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [पञ्चमोऽङ्कः सरस्वती — वत्स, श्रूयताम् । चित्तस्यायं विकारः । ततः कैस्मिंश्चिच्छान्ते विषये चित्तं निवेश्यताम् । १९४ मनः–तत्प्रसीदतु भगवती । कोऽसौ शान्तो विषयः । सरस्वती — वत्स, गुह्यमेतत् तथाप्यार्तानामुपदेशे न दोषः । नित्यं समरञ्जलदनीलमुदारहार- केयूरकुण्डलकिरीटधरं हरिं वा । ग्रीष्मे सुशीतमिव वा हृदमस्तशोकं ब्रह्म प्रविश्य भज निर्वृतिमात्मनीनाम् ॥ ३१ ॥ चित्तं भवदुपदेशवशात् शोकावेगात् निरुद्धं वारितमपि चिन्तासंतानैरभिभूयते । वाताहृतैरभ्रच्छेदैरैन्दवं बिम्बमिवेत्युक्तम् । कोऽयं विकार इति चेतोविकत्थना- प्रतिपादनाद्विचलनाख्यमङ्गम् । तल्लक्षणं तु 'विकत्थना विचलनं' इति ॥ ३० ॥ मन इत्यारभ्य न दोष इत्यन्तं सुगमम् । नित्यं स्मरनिति । नित्यमनवरतम् । वाशब्द एवकारार्थे । सगुणनिर्गुणविकल्पार्थे वा वाशब्दः । तदेव हरिं स्मरन् तत्रैव चित्तैकाग्रतां संपादयन् ग्रीष्मे ग्रीष्मकाले ग्रीष्माभितप्तः सुशीतमत्यन्तशीतलं प्रासाद मिवास्तशोकमपास्तदुःखम् । शान्तमित्यर्थः । ब्रह्म प्रविश्य तदेकतामापाद्य आत्मनीनामात्महितां विक्षेपरहितत्वेनेप्सितां निर्वृतिं स्वरूपाविर्भावलक्षणं निर्वाणं भज स्वीकुरु । आत्मनीनामित्यत्र 'आत्मन्विश्वजन -' इत्यादिना खः । खस्य इना- एतच्चेतो मनः वारितं निवारितमपि चिन्तासंतानैश्चिन्तापरंपराभिरभिभूयते । तत्र दृष्टान्तः । अभ्रच्छेदैमेंघपटलैः । इन्दोरिदमैन्दवं चान्द्रमसं विम्वमिव । कीदृशै- रभ्रच्छेदै: । मुहुर्वारंवारं वातेनासमन्ताद्धतैनीतैः । चालितैरित्यर्थः ||२०|| शान्ते विषये शोकमोहादिरहिते निवेशय । गुह्यं गुप्तन् । आर्तानां मोहशोकपीडितानाम् । उपदिश- ति – नित्यमिति । हे मनः । त्वमित्यध्याहारः । अस्त: सर्वथा कालत्रयेऽपि शोकः संसारकारणीभूतं दुःखं यस्मिंस्तादृशं ब्रह्म । वा स्वार्थे । ब्रह्मैव प्रविश्याद्वितीयत्वेन ज्ञात्वा । 'द्वितीयाद्वै भयं भवति' इति श्रुतेः । 'भयं द्वितीयाभिनिवेशतः स्यात्' इति महाभागवताच्च । आत्मने हिता आत्मनीना तां निर्वृति परमसुखं भज प्रामुहि । तत्र दृष्टान्तः । ग्रीष्मे सुशीतं हृदमिव । यथा चण्डांशुकरसंतप्तः शीतं तटिनीहृदं प्रविश्य सुखमनुभवति तथा संसारतप्तो ब्रह्म प्रविश्य तत्लुखमनुभवतीत्यर्थः । निर्गुणे निराकारे निर्विषये कथं मनसः प्रवृत्तिरित्याशक्य आदौ साकारे प्रवृत्तिः सुकरेत्याह । किं कुर्वन्सन् । जलदनीलं वनश्यामम् | उदारोऽमूल्यो यो हारः केयूरं वाह्रोभूषणं १ 'ततः कचिच्छान्ते विषये चेतो निवेशय' इति पाठः ।