पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १९३ मनः – भगवति, तव प्रसादादपास्त एव व्यामोहः । किंतु- भगवति तव मुखशशधरगलितैर्विमलोपदेशपीयूषैः । क्षालितमपि मे हृदयं मलिनं शोकोर्मिभिः क्रियते ॥ २८ ॥ तदस्यार्द्रस्य शोकप्रहारस्य भेषजमाज्ञापयतु भगवती । सरस्वती – वत्स, नूनमुपदिष्टमेवात्र मुनिभिः । अकाण्डपातजातानामार्द्राणां मर्मभेदिनाम् । गाढशोकप्रहाराणामचिन्तैव महौषधम् ॥ २९ ॥ मनः——– एैवमेव भगवत्येतद्दुर्वारं नु चेतः । यतः - अप्येतद्वारितं चिन्तासन्तानैरमिभूयते । मुहुर्वाताहतैर्बिम्बभ्रमच्छेदैरिवैन्दवम् ॥ ३० ॥२॥ । भूय इत्यर्थः । पुनः पुनर्विक्षेपराहित्येन सुखी भव सुखरूपेण तिष्ठ ॥ २७ ॥ भग- वतीति । भगवति, त्वदूचनसुधास्वादसमय एवान्तःकरणं निर्मलं भवति पश्चात् शोकाग्निभिः । ‘शोकोर्मिभिः' इति वा पाठः । मलिनं भवतीति श्लोकार्थः ॥२८॥ . वत्सेत्यादि निवेश्यतामित्यन्तं सुगमम् ॥ अकाण्डेत्यादि । अकाण्डेऽनवसरे पातः प्राप्तिर्येषां तेऽकस्माजाताः । अप्रार्थिता इत्यर्थः । ते च ते जाताश्च बाण- पातं विना जातानामिति च । मर्मभेदिनां मर्मस्पृशां मर्मच्छिदां च कलत्रादिविष- याणां गाढाश्च ते शोकप्रहारास्तेषामचिन्तैवाविचार एव महौषधम् | अचिन्तया प्राप्तानामचिन्तैव महौषधमियभिप्रायः ॥२९॥ अध्येतदिति । अत्र एतन्मम कथमद्यापि संसारचक्राक्रकचसंभ्रमे भ्रमामीति आश्चर्यमिव मे भातीत्याशङ्ख्याह- भगवतीति । मोहशेषो ममाद्यापि न मुञ्चतीत्याह — किंत्विति । हे भगवति, तव मु- खमेव शशधरश्चन्द्रस्तस्य दीघितयः किरणास्तेभ्यो गलितानि निःसृतानि तैर्विमला निर्मला उपदेशा एव पीयूषाण्यमृतानि तैमें मम हृदयं मनः क्षालितमप्यात्मा- वबोधयोग्यं संपादितमपि शोकोमिंभिः शोकलहरीभिर्मलिनं क्रियते आब्रियते । अहो असंभावनाविपरीतभावनासंस्कारा बलवत्तरा इत्यर्थः ॥ २८ ॥ तदस्येति । आर्द्रस्य नूतनस्य शोक एव प्रहारस्तस्य | मुनिभिरुपदिष्टं मार्गमुपदिशामीत्याह- अकाण्डेति । न काण्डपातो बाणप्रहारो यत्र तथा जातानामुत्पन्नानामार्द्राणामभि- नवानां मर्ममेदिनां व्यथाकारिणामेतादृशानां गाढा दृढा: पुन: स्मारका ये शोका एव प्रहारास्तेषामचिन्तैवासंकल्प एव महौषधिर्नान्यदित्यर्थः ॥ २९ ॥ अध्येतदिति । २' महौषधिः' इति पाठः । , १ 'तव मुखशशधरदीधितिगलितैः' इति पाठः । ३ 'भगवति, एवमेतद्दुर्वारं' इति पाठः ।