पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् शरदलित विदीर्णोतुङ्गमातङ्गशैल- स्खलितरयविशीर्णच्छत्रहंसावतंसाः [पञ्चमोऽङ्कः ॥ १० ॥ तस्मिन्नेवातिमहति महादारुणे सङ्ग्रामे परापरपक्षविरोधितया पाषण्डागमैरग्रेसरीकृतं लोकायतं तन्त्रमन्योन्यसैन्यविमर्दनैर्नष्टि॑म् । अन्ये तु पापण्डागमा निर्मूलतया सदागमार्णवप्रवाहेण पर्यस्ताः । सौ- पको यासां ताः निबिडपिशितपङ्काः कः काकैश्चावकीर्णैः संकुलाः । मातङ्गा एव शैलास्तेभ्यः स्खलितो रयो वेगः । प्रवाह इति यावत् । अत्र विशीर्णानि छत्राणि श्वेतच्छन्त्राणि तान्येव हंसास्त एवावतंसा भूषणानि यासां ताः सखुः निर्गताः । प्रवहन्ति स्मेत्यर्थः ॥ १० ॥ तस्मिन्नेवेत्यादि । तस्मिन्नेव वर्त- मानेऽतिमति प्रतिद्धे महादारुणेऽत्यन्तभयंकरे संग्रामे युद्धविषये परापरपक्ष- विरोधितया पाषण्डागमैरसौ म्रियतां वा जीवतु वेति गूढाभिसन्धिना पुरतो गन्तव्यमिति प्रोत्साहितमित्यर्थः । लोकायतं तन्त्रं चार्वाकतन्त्रमन्योन्योपमर्देनैव नष्टम् । चार्वाका देहात्मवादिनस्तन्मतं वैदिकानामवैदिकानां च न संमतम् । अत उभयोर्विरोधः।उभाभ्यां देहादिव्यतिरिक्तात्मप्रतिपादनात्पादाद्योतेनैव विशिष्टमिति (?)भावः । अनन्तरं चार्वाकनाशानन्तरं पाषण्डागमाः पाषण्डानामागमा एव वृक्षा मूलं मूलप्रमाणं तदेव मूलं वुध्नः निर्गतं मूलं येभ्यस्ते निर्मूलास्तेषां भावः तया निर्मू- लतया । सन् प्रकृष्टमागमः आगमनं यस्य सदागमश्चासावर्णवप्रवाहश्च । सदागम कमो यासु ताः । पुनः कीदृश्यः । कङ्काः पक्षिणस्त एव रका दीनाः प्राणिनस्तैरव- कीर्णा व्याप्ताः । पुनः कीदृश्यः शरैर्दलिता जर्जरीकृता अतएव विदीर्णा ये उत्तङ्गा उच्चा मातङ्गाः करिणस्त एव शैलाः पर्वतास्तेभ्यः स्खलितरयाः शून्यवेगाश्च ते विकीर्ण- च्छत्राण्येव हंसारत एवावतंसा भूषणानि यासु ताः ॥ १० ॥ अथ पाखण्डन्यकारमा- बिष्करोति – तस्मिंश्चेति । तस्मिन्पूर्वनिरूपितेऽतिमहति दारुणे संग्रामे । लोकायतिकं तत्रं शरीरात्मवादिशास्त्रं अन्योन्यं परस्परं सैन्यस्य विमर्दनानि संघट्टनानि तैरेव नष्टम् । सर्वथा युक्तिशून्यमिति भावः । तस्य प्रथमतो विनाशहेतुमाह । कीदृशं त- ब्रन् । पाखण्डागमैः सौगतसौत्रान्तिकमाध्यमिकादिभिरग्रेसरीकृतम् । अन्योन्यविम- र्दने कारणमाह—परापरेति । पर उत्कृष्टः सदागमरूपस्तर्कः, अपरोऽपकृष्टः पान- ण्डागमतर्कस्तयोर्विरोधितया । लोकायता हि भूतपरिणामरूपशरीरमेवात्मानमुररी- कुर्वन्ति । तच्चास्तिकानां सर्वेषां नास्तिकानां चानभिमतमतो विरोध इति भावः । अन्यदिति । अन्यदप्यस्ति श्रोतव्यमिति शेषः । पाखण्डेति । सदागमा: समीचीना १ 'विकीर्णछत्र' इति पाठ: । २ 'तस्मिंश्चातिमहति दारुणे' इति पाठः । ३ 'लोकायतिकम्' इति पाठः । ४ 'नष्टमन्यत् । पाखण्डा' इति पाठः ।