पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् गतास्तावत्सिन्धुगान्धारपारसिकमागधान्ध्रहूणवङ्गकलिङ्गादीन्म्लेच्छप्रा- यान्प्रविष्टाः । पाषण्डदिगम्बरकापालिकादयस्तु पामरबहुलेषु पाञ्चा- लमालवाभीरावर्तभूमिषु सागरोपान्तनिगूढं संचरन्ति । न्यायाद्यनुगत- मीमांसयावगाढप्रहारजर्जरीकृता नास्तिकतर्कास्तेषामेवागमानामनु- पथं प्रयाताः । विष्णुभक्तिः - ततस्ततः । एव सदागमार्णवप्रवाहस्तेन पर्यस्ताः परितः क्षिप्ताः । सदागमार्णवपरीवाह इति पाठः । सदागमाः सर्वदा जलोच्छ्वासाः । गमनमार्गविदारकाः । उच्छ्वासतुल्या इत्यर्थः । ‘जलोच्छ्वासाः परीवाहाः' इत्यमरः । सौगतास्तावदिति । सिन्ध्वादि- देशेषु प्रविष्टाः । एते म्लेच्छदेशाः । 'अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गच्छन्पुनः संस्कारमर्हति ॥” इति । पाषण्डदिगम्बरकापालिकादि- मतानि मधुपानप्रवृत्ततया कुत्रचिद्विलीय वर्तन्ते । पाषण्डाश्चेति दिगम्बराश्चेति विशेषणसमासः । वाचारं रहस्येनैव कुर्वन्तो वैदिकाचारं बाह्यतः समाचरन्ति । तदेव विवृणोति । म्लेच्छप्रायान्स्लेच्छबहुलान् । पाषण्डतर्कास्तु खण्डिताङ्गाः सन्तः सामर्थ्यशून्याः सन्तः तेषामागमानां तदीयागमानामनुपथं पश्चात्तद्गमनान- न्तरं तत्पथमेव प्रस्थिता इत्यर्थः । अत्र छलनं नाम विमर्शसन्धेरङ्गम् । तल्लक्षणम् ‘छलनं व्याकल्पेन' इति । न्यायाद्यनुगतेति न्यायाद्यनुगतया न्यायशास्त्राद्यनुग- तया नीमांसया जर्जरीकृता शकलीकृता नास्तिकतर्काः 'स्यात् अस्ति स्यान्नास्ति' इत्येवमादिसप्तभूमिकाप्रभृतयः तेषामेवागमानां चौद्धाद्यागमानामनुपदं पश्चा- त्प्रयाता गताः । तद्वन्नष्टा इत्यर्थः । अनेन बौद्धागमबौद्धशास्त्रबौद्धतर्काणां तिर- स्कारकथनेन द्रवसंज्ञकं विमर्शसन्धेरङ्गमुक्तम् । 'द्रव इत्युच्यते तज्ज्ञैर्विदुषां च १७७ आगमा वेदमूलास्त एवातिविस्तृतत्वादर्णवास्तत्प्रवाहेण प्रमाणपरंपरारूपेण पाखण्डा- गनाः पर्यरता दूरे प्रक्षिप्ताः । यतो निर्मूला इत्यर्थः । तदेवाह — सौगता इति । सौगता: सुगतप्रणीता आगमा म्लेच्छप्रायान्स्लेच्छधर्माक्रान्ताञ्जनपदान्देशान्प्रविष्टाः । ते देशा: सिन्धुगान्धारादयः । पाखण्डेति । पाखण्डोऽहिंसामात्रनिरतोऽग्नीषोमीयादि- हिंसामपि तिरस्कुर्वन् श्वेतपटसिद्धान्तो दिगम्बरः सत्त्वासत्त्ववादिक्षपणकसिद्धान्तः कापालिको भैरवसिद्धान्तो यथेष्टवादी । पामरा अतिनीचास्तद्वहलेषु तत्प्रचुरेषु ना- स्तिकानां बाह्यानां तर्कशास्त्राणि अनु पश्चात्तेषामेवागमानां पाखण्डागमानां पदं १ 'गान्धारमागध' इति पाठः । २ 'रावर्तसगरानूपेषु निगूढ' इति पाठः । ३ 'गमानामनुपदं' इति पाठः ।