पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १७५ [५] तैस्तैरेव सदागमैः श्रुतिमुखैर्नानापथप्रस्थितै- र्गम्योऽसौ जगदीश्वरो जलनिधिर्वारां प्रवाहैरिव ॥ ९ ॥ विष्णुभक्तिः–ततस्ततः । C श्रद्धा — ततो देवि, परस्परं करितुरगपदातीनां निरन्तरशर- निकरधारासंपातोपदर्शितदुर्दिनानां तेषामस्माकं च योधानां सङ्ग्राम- स्तुमुलसंप्रहारः प्रावर्तत । तथाहि — बहुलरुधिरतोयास्तत्र सनुः स्रवन्त्यो निबिडपिशितपङ्काः कङ्करङ्कावकीर्णाः । वृतैरागमैरित्यर्थः । नानापथप्रस्थितैर्नानामार्गप्रवृत्तैः । ब्रह्मरुद्रादिदेवतालम्बनैरि- त्यर्थः । असौ जगदीश्वरो ज्योतिः शान्तमित्यादिविशेषणैर्निरूपितः असौ पर- मात्मा स एव गम्यः स एवोपास्यः स एव प्राप्यः । तदेव दृष्टान्तेन द्रढयति । जलनिधिरिति ॥ ९ ॥ सङ्ग्रामो युद्धम् | तुमुलः संप्रहार इत्यनेन उद्वेजनप्रति पादनाक्ष्यतिर्नाम बिमर्शसन्धेरङ्गम् । 'द्युतिरुद्वेजनं ख्यातम्' इति तल्लक्षणम्- बहुलरुधिरतोया इति । अत्र युद्धे बहुलान्यधिकानि रुधिराण्येव तो- यानि यासां ताः सवन्त्यो नद्यः निविडं घनीभूतं पिशितं मांसं तदेव पुनः कीदृशम् । अनन्तं वस्तुतः कालतो देशतश्चेति त्रिविधपरिच्छेदशून्यम् । पुनः कथंभूतम् । अव्ययं विकारशून्यम् । अजं जन्मरहितम् । यद्यप्येवं तथापि नानाश्रुति- भिर्ब्रह्मविष्णुशिवप्रतिपादिकाभिर्नानात्वमेव न त्वैक्यमित्याशयाह–नानेति । ना- नापथप्रस्थितैः नानामार्गप्रवृत्तै: श्रुतिमुखैरुपनिषत्प्रधानैः असावपरोक्षो जगदीश्वरो ‘य त्साक्षादपरोक्षात्' इतिश्रुतेर्गम्य: लक्षणया बोध्यः । अभेदे दृष्टान्तमाह । वारां ज-. लानां प्रवाहैर्जलनिधिरिव 'यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे वि- हाव' इत्यादिश्रुतेः । तथा च गीतायाम् 'येऽप्यन्यदेवताभक्ता यजन्तः श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्' ९ ॥ ततो देवीति । इति तेषामस्माकं च करितुरगरथपदातीनां योधानां वीराणां तुमुलो दारुणः संप्रहारः संग्रामः प्रावते - ताजायत । कीदृशानां तेषामस्माकं च । निरन्तरं निविडं शरनिकराणां वाणसमुदा- यानां यो धारासंपात इव संपातो वृष्टिस्तेनोपदर्शितं दुर्दिनं मेघच्छन्नमहो यैस्ते- पाम् ॥ — बहलेति । तत्र संग्रामे स्रवन्त्यो नद्यः सस्रुरतुवन् । कीदृश्यः स्रवन्त्यः । बहलं रुधिरमेव तोयं जलं यासु ताः । पुनः कीदृश्यः । निबिडं धनं पिशितं तदेव पङ्कः - १ 'योधानां तुमुल: संप्रहारः प्रावर्तत' इति पाठः । २ 'बहलरुधिर' इति पाठः ।