पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ प्रबोधचन्द्रोदयम् [पञ्चमोऽङ्कः येन वेदप्रसूतानां तेषामैवान्तरविरोधेऽपि वेदसंरक्षणाय नास्ति- कपक्षप्रतिक्षेपणाय शास्त्राणां साहित्यमेव । आगमानां च तत्त्वं विचारयतामविरोध एव । तथाहि — ज्योतिः शान्तमनन्तमद्वयमजं तत्तद्गुणोन्मीलना- द्ब्रह्मेत्यच्युत इत्युमापतिरिति प्रस्तूयतेऽनेकधा । श्लाघां संपादयतीत्यर्थः ॥ ८ ॥ येनेत्यारभ्य विरोध एवेयन्तं सुगमम् ॥ ज्योतिः शान्तमिति । ज्योतिस्तेजोरूपम् । सूर्यादिवदुष्णं न भवतीत्याह शान्त- मिति । अनन्तमपरिच्छिन्नम् । व्याख्यानं प्राग्वत् । अद्वयमेकम् । अजमनादि- मेव । एवं विरुद्धं कूटस्थचैतन्यं तत्तद्गुणोन्मीलनात्तत्तद्गुणावेशात् । ब्रह्मेति हिरण्यगर्भ इति अच्युतो रमापतिरिति उमापतिगौरीश इलनेकधा प्रस्तूयते । तैरागमैरित्यन्वयः । तेन कारणेन श्रुतिमुखैः श्रुतिमूलकैः सदागमैः । सद्भिरा । लक्ष्यते ॥ ८ ॥ ननु स्वतन्त्रर्पिप्रणीतानां भिन्नमतावलम्विनां दर्शनानां कथमेकवंश- अनूतत्वमित्याशङ्क्याह—येनेति । वेदमूलत्वमेकवंशप्रसूतत्वे वीजमिति भावः । सा- हित्यमेव अविरोध एव । ननु स्वतन्त्रर्पिप्रणीतानां शास्त्राणां पौरुषेयत्वाद्विरुद्धार्थाभि- 'धायकत्वेऽन्यतरस्याप्रामाण्यप्रसङ्गाद्विरोधे चोभयस्याशास्त्रार्थत्वादुपपद्यते शास्त्रेष्विदं प्रमाणमिदमप्रमाणमिति विचारणा । अपौरुषेयासूपनिषत्सु द्वे वाव ब्रह्माणी बेदितव्ये' 'हा सुपर्णा सयुजा सखाया' 'एकमेवाद्वितीयम्' 'ऐतदात्म्यमिदं सर्वम्' इत्यादि वि रुद्धार्थकत्वं कथं सोढुं शक्यं, भ्रमप्रमादविप्रलिप्साकरणापाटवादिपुरुपदोषाणामनिरू- पणादित्याशमय तत्र विरुद्धार्थकत्वमेव नास्तीत्याह – आगमानामिति । तत्त्वं वि- चारयतां तत्त्वप्रतिपादकानां तत्त्वमद्वितीय ब्रह्माखण्डमशक्यार्थरूपं तदेव साक्षात्कृतं प्रयोजनम् । तथा च पदार्थानां विरोधेऽपि वाक्यार्थस्यैकत्वान्न तन्त्र विरोधशङ्काशूक- सपीति भावः । उक्तमर्थमाविष्करोति । तथा हि – ज्योतिरिति । तैस्तैः प्रसिद्धैः स- दागमैः समीचीनैवैदिकपरिगृहीतैरागमैर्नारदपञ्चरात्रादिभिः ज्योतिर्ब्रह्मैवानेकधाऽनेक- प्रकारं प्रस्तूयते उपास्यते । ते के प्रकारा इत्यपेक्षायामाह ब्रह्मेत्यादि । ब्रह्मैव तत्त्व- गिति हैरण्यगर्भाः, अच्युत इति वैष्णवाः, उमापतिरिति शैवा: । नन्वेतान्येव पारमा- थिंकानि नानातत्त्वानि सन्तु कुतोऽविरोध इत्याशङ्ख्याह । ते ते ये गुणा रज:- सत्त्वतमोरूपास्तेषामुन्मीलनादाधिक्याद्ब्रह्मेत्यादिसंज्ञा: । रजस आधिक्या ब्रह्मेति, स- चाधिक्याद्विष्णुरिति, तमस आधिक्याद्रुमापतिरिति एकस्यैव गुणोपाधिकाः संज्ञान तु वास्तवो भेद इति भावः । कीदृशं ज्योतिः । शान्तं रागद्वेषाभिनिवेशशून्यम् । १ 'तेषामान्तरविरोधे' इति पाठ: