पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् १५७ देवः । ( इति निष्क्रान्तः ।) (नेपथ्ये ।) पुरुषः—–——यदाज्ञापयति भो भोः सैनिकाः, सज्यन्तां कुम्भभित्तिच्युतमदमदिरामत्तभृङ्गाः करीन्द्रा युज्यन्तां स्यन्दनेषु प्रसभजितमरुच्चण्डवेगास्तुरङ्गाः । कुर्तेर्नीलोत्पलानां वनमिव ककुभामन्तराले सृजन्तः पादाताः संचरन्तु प्रसभमसिलसत्पौणयोऽप्यश्ववाराः ॥ २५ ॥ सैनिका इत्यन्तं सुगमम् ॥ - सज्ज्यन्तामिति । सज्यन्ताम् । युद्धसंनद्धाः क्रियन्तामित्यर्थः । कुम्भमित्तिभ्यः कुम्भस्थलेभ्यश्च्युताभिर्मदजलमदिराभिर्मत्ता- स्तत्पानेन मत्ता भृङ्गा भ्रमरा येषां ते करीन्द्रा गन्धद्विपाः । प्रसभमत्यन्तं जित- मरुच्चण्डवेगाः जितो मरुतः पवनस्य चण्डनेगो यैस्ते तुरङ्गाः स्यन्दनेषु रथेषु युज्यन्तां वध्यन्ताम् । कुन्तैरायुधविशेषैः ककुभामन्तराले रोदसीकुहरे नीलोत्प- लानां वनमिव सृजन्तः पादाताः पदातयः संचरन्त्वग्रे गच्छन्तु । अश्ववारास्तु- रङ्गसादिनोऽसिभिः खड्गैर्लसन्त उल्लसन्तः पाणयो हस्ता येषां ते संचरन्त्विय भृतानि सुसिद्धानि विजयार्थप्रयाणाय मङ्गलानि कन्यादर्शदध्यादीनि । प्रत्यासन्नो निकटवतीं मौहूर्तिकावेदितो ज्योतिर्विदादिष्टः प्रस्थानसमयो विजययात्रासमयः ॥ — सज्यन्तामिति । करीन्द्रा हस्तीन्द्राः सज्ज्यन्तां सपल्याणाः क्रियन्ताम् । कीदृशाः करीन्द्राः । कुम्भभित्तेर्गण्डफलकाच्युता सृता चासौ मदमदिरा च मदद्रवश्च तेन मत्ता भृङ्गा येषु ते तुरङ्गा अश्वा: स्यन्दनेषु रथेषु युज्यन्तां बध्यन्ताम् । कीदृशास्तु- रङ्गाः । प्रसभमतिशयेन जितो मरुतो वायोश्चण्डोऽतिशयितो वेगो यैस्ते । पादाताः पत्तयः संचरन्त्वग्रे गच्छन्तु । कीदृशाः पादाताः । ककुभां दिशामन्तराले मध्ये कुन्तैः प्रासैरायुधविशेषैनीलोत्पलानां वनमिव सृजन्तः कुर्वन्तोऽश्ववाराः प्रसभम- तिशयेन संचरन्तु गच्छन्तु । कीदृशा अश्ववारा: । असिभिः खनैर्लसन्तः शोभन्त: पाणयो हस्ता येषां ते इति बाह्योऽर्थः । अथाभ्यन्तरः । कुम्भ: कुम्भकाख्यप्राणा- यामः स एव भित्तिरिव भित्तिरिन्द्रियाधारत्वात्तस्याश्युतो मद एव मदिरा तथा मत्ता लुप्तविषयस्मृतयो भृङ्गा इव भृङ्गा इन्द्रियाणि | विषयरसलुब्धत्वाद्भृङ्गसा- म्यमिन्द्रियाणाम् । सज्ज्यन्तां स्वायत्तानि क्रियन्ताम् । करीन्द्राः प्राणादिवायवः स- ज्यन्तां यत्ताः क्रियन्ताम् । एतदुक्तं भवति । प्राणादिनियमेन दोषक्षय इति । १ 'भो भो : सैनिकाः' इति मुद्रितपुस्तके नास्ति । २ 'पाणयोsथाश्ववाराः ' इति पाठः ।