पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [चतुर्थोऽङ्कः संतोषः– (सविनयमुपविश्य) एष प्रेप्यजनः । आज्ञाप्यतां देवेन । राजा - विदितप्रभाव एव भवान् । तदुलमत्र विलम्बेन । लोभं जेतुं वाराणसीं प्रतिष्ठीयताम् । संतोषः -- यदाज्ञापयति देवः । सोऽहम् - नानामुखं विजयिनं जगतां त्रयाणां देवद्विजातिवधबन्धनैलुब्धवृत्तिम् । रक्षोधिनाथमिव दाशरथिः प्रसह्य निर्जित्य लोभमवशं तरसा पिनष्मि ॥ २४ ॥ ( इति निष्क्रान्तः ।) (ततः प्रविशति विनीतवेषः पुरुषः ।) १५६ पुरुषः- देव, संभृतानि विजयप्रयाणमङ्गलानि । प्रत्यासन्नश्च मौहूर्तिकावेदितः प्रस्थानसमयः । राजा यद्येवं सेनाप्रस्थानायादिश्यन्तां सेनापतयः । - तेति स्पष्टम् ॥ २३ ॥ एष स्वामी । तदुपसर्पतु महाभाग इत्यारभ्य सोऽहमि- त्यन्तं सुगमम् ॥–नानामुखमिति । नानामुखं नानाप्रकारं दशमुखं च । त्रयाणां जगतां विजयिनं देवद्विजातिबधबन्धनलुब्धवृत्तिम् । लुब्धो लुब्धकः तद्वद्वृत्तिर्यस्य स तम् । विशेषणत्रयं रावणलोभयोस्तुल्यम् । तरसाऽचिरेण पि- नष्मि चूर्णयामि ॥ २४ ॥ ततः प्रविशति विनीतवेषः पुरुष इत्यारभ्य भो भोः स्वामी । तदुपसर्पतु महाभागः |] स्वसंनिधौ खसमीपे । अनेन वस्तुविचारक्षमयो- रन्तरङ्गः संतोष इति ध्वनितम् । सोऽहमित्यन्तं स्फुटार्थम् । राशो निकटे स्वसामर्थ्य दर्शयति — सोऽहं । नानेति । सोऽहं विख्यातविभवः संतोषस्तरसा बलेन प्रसह्य पराभूय निर्जित्यावशं व्यापारशून्यम् । विकलमिति यावत् । लोभं पिनष्मि संचू- र्णयामि । कः कमिव । दाशरथिः श्रीजानकीपतिर्बलेन परिभूम जित्वाऽवशं रक्षोधि- नाथं रावणमिव । कीदृशं लोभं रावणं च । लोभपक्षे नाना बहूनि मुखानि द्वाराणि यस्य तम् । रावणपक्षे नानानेकानि मुखानि यस्य तं दशबदनत्वात् । त्रयाणां जगतां विजयिनं जयशीलम् । पक्षद्वये तुल्यं स्पष्टं च । पुनः कीदृशम् । देवाश्च द्विजातयश्च ब्राह्मणास्तेषां वधो मारणं बन्धनं च तेन लब्धा वृद्धियेंन तम् । अन्यायलब्धधनस्य यादृशी गतिस्तादृशी लोभस्यापि गतिरिति भावः ॥ २४ ॥ सं- १ 'बन्धनलब्धवृद्धिम्' इति पाठः ।