पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् मृत्युनृत्यति मूर्ध्नि शश्वदुरगी घोरा जरारूपिणी त्वामेषा ग्रसते परिग्रहमयैर्गृधैर्जगनस्यते । धूत्वा बोधजलैरबोधबहुलं तल्लोभजन्यं रजः संतोषामृतसागराम्भसि मनाङ्मनः सुखं जीवति ॥ २३ ॥ प्रतीहारी – * एसो सामी । ता उनसप्पतु महाभाओ । -* ( तथा कृत्वा । ) संतोषः–जयतु जयतु खामी । एष संतोषः प्रणमति । राजा इहोपविश्यताम् । ( इति स्वसंनिधाबुपवेशयति ।)

  • एष स्वामी । तदुपसर्पतु महाभागः ।

४] किंच- मृत्युरित्यादि । मृत्युर्मूर्ध्नि मस्तके नृत्यति नर्तनं करोति । शश्वत्सदा मृत्यु - र्नियतः, आयुरनियतमिति भावः । यदि दैवाच्छतवर्षपर्यन्तं जीवति तथापि घोरा भयंकरी मृत्युतुल्या जरारूपिणी एषा प्रसिद्धोरगी त्वां लोभं ग्रसते । एवंच सति यदि धनमर्जयसि तद्धनमात्मभोगाय न भवत्येवेत्याह । परिग्रहमयैः पुत्रमित्रकल- त्रादिरूपैर्गृध्रसदृशैर्जगत्कृत्स्नं भवदर्जितमिदं ग्रस्यते भक्ष्यते । भ्राम्यते इति पाठे प- रिग्रहमयैगृधैरृभतुल्यैर्हेतुकर्तृभिः । गर्धनैरित्यर्थः । जगद्भ्राम्यते ण्यन्ते कर्मणि यक् । जगदिति जगतः कर्मत्वं गन्तव्यविवक्षया । जगति त्वं भ्राम्यस इत्यर्थः । 'देश- कालाध्वगन्तव्याः कर्मसंज्ञा त्यकर्मणाम्' इत्युक्तेर्जगतः कर्मत्वं अवोधनतमोगुणेन बहुलं संवलितं लोभजन्यं रजो रजोगुणं बोधजलैर्विवेकसलिलै रुवा प्रशभय्य यथा लोके धूलिवहले क्षितितले सलिलप्रोक्षणेन धूलिं निरुध्य वर्तन्ते जनास्त: द्वदिति भावः । एवं रजोगुणे निरुद्धे सत्त्वगुणस्योद्रेकः स्वतएव स्यादित्याह । संतोषामृ न तथा पीडेत्यर्थः ॥ २२ ॥ धनादिरक्तस्य कथं सुखमित्याशया–किंच । मृत्यु- रिति । मृत्युः शश्वन्निरन्तरं मूर्ध्नि मस्तके शिरस्येव माद्यति हृष्यति । घोरा भयावहा जरा वार्धक्यं तद्रूपिण्युरगी सर्पिण्येषातिप्रसिद्धा त्वां ग्रसते गिलति । न केवलं त्वामेव ग्रसते, अपितु परिग्रहाः स्त्रीपुत्रादयस्तन्मयैगृभैर्मांसभक्षकैः पक्षिभिर्जगद्विश्वं अस्यते । एवं सति किं विधेयं तत्राह । बोधजलैर्ज्ञानजलैरबोधनाज्ञानेन बहुलं बहु तत्पूर्वोक्तं लोभेन जन्यं रजो धूत्वा प्रक्षाल्य संतोष एवामृतसागराम्भस्तत्र मनाक् क्षणमात्रं मझ आलुतः सुखं जीवति । तिष्ठतीत्यर्थः ॥ २३ ॥ [ प्रतीहारी – एप १ 'मृत्युर्माद्यति' इति पाठः ।