पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् यदि शमगिरो वैयासिक्यो बुधैश्च समागमः · क्व पिशितवसामय्यो नार्यस्तथा च च मन्मथः ॥ १२ ॥ नारीति नाम प्रधानमस्त्रं कामस्य । तेन तस्यां जितायां तत्स हायाः सर्व एव विफलारम्भा भङ्गमासादयिष्यन्ति । तथाहि — चन्द्रश्चन्दनमिन्दुधामधवला रोत्रिद्विरेफावली- झङ्कारोन्मुखरा विलासविपिनोपान्ता वसैन्तोदयः । मन्द्रध्वानघनोदयाश्च दिवसा मन्दाः कदम्बानिलाः • शृङ्गारप्रमुखाश्च कामसुहृदो नार्यो जितायां जिताः ॥ १३ ॥ ४] १४७ नैवान्या(?)मित्यच् ‘ठिड्डाणञ्-' इत्यादिना डीप् । अयमर्थः । जुगुप्सानन्तरं वैराग्यमुत्पद्यते, तदनन्तरं शमः, तदनन्तरमेकान्तबासः । तत्र कुतस्त्याः स्त्रियः तन्निबन्धनमन्मथवार्ता दूरतोपास्तेति ॥ १२ ॥ तदेवाह–नारीति । नामेति प्रसिद्धौ । अरविन्दादिपञ्चवाणव्यतिरिक्तो नारीति षष्ठः शरः कविसमयसिद्ध इति नामपदं प्रयुञ्जानस्य भावः । अतएवारोप्यमाणप्राधान्यं विहायारोपविषय- स्यैव प्रधानोक्तिः । तस्यामिति । अतएव पञ्चशराणामुपसर्जनत्वं नारीरूपस्या- स्त्रस्य प्राधान्य मित्य भिसंधाय प्रधानमस्त्रं कामस्येत्युक्त मिति ध्येयम् ॥ चन्द्रश्च- न्दनमित्यादि स्पष्टम् । आलम्बनविभावे जिते उद्दीपनविभावस्य वार्ता दूरत कंदर्पः । इदं किं तदाह । विपुलपुलिना: विपुलानि प्रशस्तानि पुलिनानि तीराणि यासां ताः कल्लोलिन्यो नद्यः । नितान्तमतिशयेन पतन्त्यो झर्यो निर्झरास्ताभिर्भसृणि- तांश्चिक्कणाः शिला येषां ते । शैलाश्च सान्द्रा निविडा द्रुमास्तरवो यासु ताः तादृश्यों बनराजयस्तपोभूमय एताः, एतासूपविश्य वैयासिक्यो व्यासप्रणीताः शमगिरः शान्तिप्रतिपादिका वाचो बुधैर्ज्ञातृभिः । 'ज्ञातृचान्द्रिसुरा बुधाः' इति कोशः । समागमः संगतिश्च एतत्सत्त्वे नार्यो मन्मथश्चेत्येतद्वयमपि न प्रभवतीत्यर्थः । कीदृश्यो नार्यः । पिशितवसामय्यो मांसवत्साप्रधानाः ॥ १२ ॥ भङ्गं पराजयम् । प्रधानाभावे सहाय- वैफल्यं दर्शयति – चन्द्र इति । इन्दुधाम्ना चद्रकान्त्या धवला रात्रयः, गुञ्जन्ती शब्दायमाना या द्विरेफावली पट्ट्पदपङ्किस्तस्या झङ्कारेण शब्देनोन्मुखराः स- शब्दा: विलासविपिनस्य क्रीडोपवनस्योपान्ताः प्रान्तप्रदेशाः वसन्तोदयाः वसन्तप्रादु- र्भावाः, मन्द्रध्वाना गम्भीरशब्दा ये घना मेघास्तेषामुदयो येषु तादृशा दिवसाः, १ 'तदा' इति पाठः । २ 'गुञ्जधिरेफावली' इति पाठः । ३ 'वसन्तोदया: ' इति पाठः ।