पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ प्रबोधचन्द्रोदयम् दृढतरम पिधाय द्वारमारात्कथंचि- त्स्मरणमपरिवृत्तौ दर्शने योषितां च । परिणतिविरसत्वं देहबीभत्सतां वा प्रतिमुहुरनुचिन्त्योन्मूलयिष्यामि कामम् ॥ ११ ॥ राजा - साधु साधु । वस्तुविचारः – अपिच- - [चतुर्थोऽङ्कः विपुलपुलिनाः कल्लोलिन्यो नितान्तपतज्झरी- मसृणितशिलाः शैलाः सान्द्रद्रुमा वने॑भूमयः । त्त्वाभावेऽपि दीर्घः॥१०॥ वस्तुविचार इत्यारभ्य शस्त्रग्रहणापेक्षेत्यन्तं सुगमम् ॥ - दृढतरमिति । आरान्निकटे | द्वित्रिदिनमध्य इत्यर्थः । द्वारं मन्मथप्रवेशद्वारं कान्तास्मरणतद्दर्शनरूपमपिधाय काममुन्मूलयिष्यामि । किं तद्वारापिधानं त- दाह — परिणतीत्यादि । परिणतौ संभोगान्ते विरसत्वम् । यद्वा वार्धके विरसत्वम् । देहवीभत्सतां पूर्वोक्तामस्थिपञ्जरमयी मित्यादिना प्रतिपादिताम् । अत्र वाशब्दो हेतुद्वयं वार्धक्येनासामर्थ्येन द्योतयति । प्रतिमुहुरनुचिन्त्य प्रतिक्षणमालोच्य कामं मन्मथं समूलं घातयिष्यामीत्यर्थः ॥ अत्र संरब्धवचनात्मकवाद धिवलं नाम गर्भसन्धेरङ्गम् । तल्लक्षणं तु – 'तोटकस्यान्यथा वाचं ब्रुवतेऽथिबलं बुधाः इति ॥ ११ ॥ – विपुलेति । विपुलपुलनेत्यादिना तपसो विजनस्थानमुक्तम् । यदि शमगिरो वैयासिक्यो व्यासप्रोक्ताः | 'तेन प्रोक्तम्' इति शैषिकष्टक् । यस्य एतादृशस्यापि जये कया शस्त्रविद्ययेति प्रश्ने आश्चर्यमिति भावः । कामविजयो- पायमाह — दृढतरमिति । कथंचित्केनापि विहितमार्गेण काममहमुन्मूलयिष्यामीति योजना । किं कृत्वा । द्वारं जीवस्य विषयानुध्यानमार्ग जीवो मृगवत्यनेनेति मार्गस्तं मार्गम् । अन्तःकरणमिति यावत् | आराद्विषयानुध्यानात्पूर्व दृढतरं कथंचित्केनापि वि- हितमार्गेणापिधाय निरुध्य । पुनः किं कृत्वा । योषितां स्त्रीणां सरणमेव विपरिवृत्तिः स्वभावपरावृत्तिरतस्यां सत्यां वा, दर्शने इन्द्रियजन्यज्ञाने सति वा, परिणतौ विरसत्वं वा, देहस्य शरीरस्य बीभत्सतां कुत्सिततां वा, प्रतिमुहुः प्रतिक्षणमनुचिन्त्यानुध्याय एवं कामजयः सुकर इत्यर्थः ॥ ११ ॥ कामजयोपायमान्तरमुक्त्वा बाह्यमाह – अ पि च । विपुलेति । यदीदं सर्व वर्तते तदा नार्यः क, क्व च तदधीनो मन्मथः १ 'विपरिवृत्ती' इति पाठः । २ 'वनराजयः' इति पाठः ।