पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् तदलमतिविलम्बेन । आदिशतु स्वामी । सोऽहं प्रकीर्णैः परितो विचारैः शरै रिवोन्मथ्य बलं परेषाम् । सैन्यं कुरूणामिव सिन्धुराजं गाण्डीवधन्वेव निहन्मि कामम् ॥ १४ ॥ राजा - ( सप्रसादम्) तत्सज्जीभवतु भवान्शत्रुविजयाय | वस्तुविचार:—–—यदादिशति देवः । १४८ [ चतुर्थोऽङ्कः (इति प्रणम्य निष्क्रान्तः ।) राजा — वेत्रवति, क्रोधस्य विजयाय क्षमैवाहूयताम् । प्रतीहारी– *जं देवो आणवेदि । ( इति निष्क्रम्य क्षमया सह प्रविशति ।) क्षमा- क्रोधान्धकार विकटभुकुटीतरङ्ग- भीमस्य सान्ध्यकिरणारुणरौद्रदृष्टेः ।

  • यद्देव आज्ञापयति ।

एवापास्तैत्यभिप्रायः ॥१३॥ सोऽहमित्यादि । सोऽहमियनेन सर्वप्रकटनम् । परितः प्रकीर्णैर्विचारैर्वेदशास्त्रपुराणेतिह। सस्थिताभिर्युक्तिभिः शरैरिव वाणैरिव प रेषां शत्रूणां बलमुन्मथ्य कामं निहन्मि | गाण्डीवधन्वार्जुनः कुरूणां सैन्यं सि- न्धुराजं सैन्धवमिव । सिन्धुराजदृष्टान्तेनाद्यैव । 'एवे चानियोगे' इति पररू पत्वम् । कामं निहन्मीति प्रतीयते ॥ १४ ॥ क्रोधान्धकारेति । क्रोध एवा वर्षाकालीनदिवसा इत्यर्थः । मन्दाः कदम्बसंवन्धिनश्चानिला वायवः शृङ्गारः प्र मुखो मुख्यो येषां ते आसनपानभोजनादयः कामस्य सुहृदः सहायाः नार्या जितायां सर्वे जिता: १३ । — - सोऽहमिति । सोऽहं प्रथमं प्रतिज्ञातकामजयः प्रकीर्णैवि स्तृतैरनेकरूपैः परितः शरैरिव विचारैः परेषां मोहाचप्तमिथ्यादृष्टिप्रणीतशास्नानुरो धेन प्रवृत्तानां शत्रूणां बलं सैन्यमुन्मथ्य निराकृत्य काममभिलाषं निहन्मि निश्चयेन नाशयामि । तत्र दृष्टान्तः । यथा गाण्डीवधन्वार्जुनः शरैः कुरूणां सैन्यमुन्मध्य •विद्राव्य सिन्धुराजं जयद्रथं जनिवांस्तथेत्यर्थः ॥ १४ ॥ [प्रतीहारी । यद्देव आज्ञाप- यति ।] क्रोधेति । धीरा विवेकिनः परस्यान्यस्य परिवादगिरो निन्दावचनानि सहन्ते ।