पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् पिशितपङ्कावन- अपिच यथावस्तु विचारयताममन्दमतीनामपि द्धास्थिपञ्जरमयी खभावदुर्गन्धिर्वीभत्सवेषा नारीति नास्ति विरतिः । तदत्र विस्पष्ट एवेतरगुणाध्यासः । तथाहि मुक्ताहारलता रणन्मणिमया हैमास्तुला कोटयो रागः कुङ्कुमसंभवः सुरभयः पौप्पा विचित्राः स्रजः । वासश्चित्रदुकूलमल्पमतिभिर्नार्यामहो कल्पितं बाह्यान्तः परिपश्यतां तु निरयो नारीति नाम्ना कृतः ॥ ९ ॥ काममेध्यपुत्तलीं स्त्रियं स्त्रीव्यक्तिम् । अहो आश्चर्यम् । मोहस्य दुरात्मनो दुश्चे- ष्टितं दुर्विलसितमेतत् । पूर्वोक्तमेवेत्यर्थः ॥ ८ ॥ न केवलं विदुषां दोषज्ञानां मोहोऽपि तु विचारकारिणामित्याह – अपि चेति । अपि च यथावस्तु वस्तुया- थात्म्यम् । वस्तुनि यथार्थस्वरूपं विचारयतामित्यर्थः । अमन्दबुद्धीनामपि विवे- कशालिनामपि । पिशितपङ्केन मांसकर्दमेनावनद्धानि खचितान्यस्थीनि वक्र्यादीनि कीकसानि तान्येव पञ्जरं तन्मयी । प्रकृतवचने मय । पञ्जरात्मिका स्वभावतः स्वभावेन दुर्गन्धिवीभत्सवेषा | सुप्सुपेति समासः । भिन्नपदं वा । दुर्गन्धिब- भत्सवेषा | दुष्टश्चासौ गन्धश्च दुर्गन्धः सोऽस्यास्तीति दुर्गन्धिनी सा च सा । बीभत्सः । कमलो वेषो यस्याः सा | 'स्त्रियाः पुंवत् -' इत्यादिना दुर्गन्धिशब्दस्य पुंवद्भावाण्णिज्लोपः । तादृशी व्यक्तिर्नारीति विचारयतामपीत्यन्वयः । ज्ञात्वा विरतिर्नास्तीत्यर्थः । तत्र हेतुमाह । तत्र विस्पष्ट एवेति । इतरत्र इतरगुणा- ध्यास इत्यर्थः ॥ – मुक्ताहारेति । मुक्ताहारलता मौक्तिकहाराः रणन्मणिमयाः रणन्माणिक्यप्रचुराः । प्राचुर्ये मयट् । ह्रैमाः हेममय्यः । विकारार्थेऽण् । तुलाको- टयो नूपुराणि । कुङ्कुममिलितो रागोऽङ्गरागः सुरभयो घ्राणतर्पणाः पौष्पाः पुष्प- सा इति । न केवलं प्रस्तौति किं तु माद्यति मत्तो भवति, मोदते संतुष्यति, अमि रमते क्रीडति च ॥ ८ ॥ यथेति । वस्तुरूपं यथास्ति तथा विचारयताम् । अमन्द- मतीनां तीक्ष्णबुद्धीनां पिशितं मांसं तस्य पन कर्दमेनावनद्धः संबद्धो योऽस्थिपञ्ज- रस्तन्मयी तत्प्रधाना स्वभावेन दुर्गन्धिः बीभत्सः कुत्सितो बेषो यस्याः सा नारीति नास्ति विरति: वैराग्यम् । अन्यगुणारोपात्तत्र गुणबुद्धिरित्याह——तदत्रेति । अत्र नार्या- मितरगुणाध्यासोऽन्यगुणारोपः । जारोपहेतुं दर्शयति — तथाहि । मुक्ताहारेति । अहो इति महाविनोदे । अल्पमतिभिः स्वल्पधीभिरेतन्नार्या कल्पितमिति संबन्धः । एतत्किं तदाह । मुक्तानां हार एव लताः, रणन्त्यः शब्दं कुर्वन्त्यो मणिमया रत्नप्र- धाना हेम्ना स्वर्णेन निर्मिता हैमास्तुलाकोटयश्चरणभूषणानि, कुङ्कुमोत्पन्नो रागो. १ 'निरयं नारीति नाम्ना कृतम्' इति पाठः । .