पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ प्रबोधचन्द्रोदयम् [चतुर्थोऽङ्कः (आकाशे) आः पाप कामचण्डाल, किमनालम्बनमेवं भवता व्याकुलीक्रियते जनः । तथा ह्ययमेवाभिमन्यते – बाला मामियमिच्छतीन्दुवदना सानन्दमुद्वीक्षते नीलेन्दीवरलोचना पृथुकुचोत्पीडं पैरीरम्भते । अरे मूढ, का त्वामिच्छति का च पश्यति पशो मांसास्थिभिर्निर्मिता नारी वेद न किंचिदत्र स पुनः पश्यत्यमूर्तः पुमान् ॥ १० ॥ - संबन्धिन्यो विचित्रा विविधाः सजो मालिकाः । वासो वस्त्रं चित्रदुकूलं नाय यो- षिति अल्पमतिभिर्दुर्बुद्धिभिः कल्पितं आरोपितम् । मुक्ताहारादिगतं रामणी- यकं नार्यामारोपितमिति भावः । बाह्यान्तः परिपश्यतां बाह्यमभ्यन्तरं च विविक्ततया परिपश्यताम् | तुशब्दः पूर्वव्यवच्छेदार्थः । निरयो नरकः नारी- तिनाम्ना नारीव्यपदेशेन कृतः । निर्मित इत्यर्थः ॥ ९ ॥ अनालम्बनं निर्विषयम् । क्रियाविशेषणम् । अर्थाभावेऽव्ययीभावो वा । आः पाप कामचण्डालेत्यादि संरब्धवचनात्तोटकम् । 'संरब्धवचनं यत्तु तत्तोटकमुदाहृतम्' इति लक्षणात् । आकाश इत्युपसन्धिः ॥ – वालेत्यादि । सुगममेतत् । अरे मूढेत्यादि । वस्तुविचारवाक्यमेतत् । वसामांसास्थिनिर्मिता नारीति न किंचिद्वेद । इच्छोद्वी- क्षणपरिरम्भादिकं दूरत एव न जानातीयभिप्रायः । पृथुकुचावुत्पीड्य पृथुकु- इङ्गरागः, सुरभयः परिमलबहुलाः पुष्पैर्विरचिताः पौष्पा विचित्रा नानावर्णाः सजः, वासो वस्त्रं चित्रं नानावर्ण दुकूलं पट्टवस्त्रम् । एतदीयं सौन्दर्य नार्यामारोपितमि- त्यर्थः । अपूर्वमिदं यद्विशेपाशिनामयमारोपो न विशेषं पश्यतामियाह – बाह्येति । बहिः अन्तरभ्यन्तरे निरयं परिपश्यतां समन्तादवलोकयतां पुरुषाणां नारीति नाम्ना कृतमलम् ॥ ९ ॥ अनालम्बनमेव निराधारमेवाविर्भवता प्रकटीभवता । कामावे- शवशादतिव्याकुलो भवतीत्याह—तथाहीति । अयं कामाविष्ट एवमभिमन्यते । एवँ कथं तदाह — बालेति । इयं वाला मामिच्छति । इयमिन्दुवदना चन्द्रवदना सानन्दं यथा स्यात्तथोदीक्षतेऽवलोकयति, इयं नीलेन्दीवरलोचना नीलकमलनयना मां पृथुकुचयोरुत्पीड उन्मर्दनं यस्यां क्रियायां यथा स्यात्तथा परीरप्सत आलिङ्गितुमिच्छ- ति । तं तिरस्करोति – अरे मूढ, का त्वामिति । अरे मूढ पशो, का त्वामिच्छति, का च पश्यति । न कापीत्यर्थः । तत्र कारणमाह । यतो मांसास्थिभिर्निर्मिता नारी न किंचिद्वेद जडत्वात् । तर्हि कथं चैतन्योपलम्भ इत्याह । अत्रास्यां नार्या प्र- २ 'परीरप्सते' इति पाठः । १ 'मेवाविर्भवता भवता' इति पाठः ।