पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ प्रबोधचन्द्रोदयम् [चतुर्थोऽङ्कः - प्रतीहारी – *जं देवो आणवेदि । ( इति निष्कम्य वस्तुविचारेण सह प्रविशति ।) - वस्तुविचारः – अहो निर्विचारसौन्दर्याभिमानवर्धिष्णुना काम- हतकेन वैञ्चितं जगत् । अथवा दुरात्मना महामोहेनैव । तथाहि— कान्तेत्युत्पललोचनेति विपुलश्रोणी भरेत्युन्नम- त्पीनोत्तुङ्ग पयोधरेति सुमुखाम्भोजेति सुरिति । दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिपुत्तिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ ८ ॥

  • यद्देव आज्ञापयति ।

मानात्प्रगल्भ्यमानेनेति च गम्यते । 'अलंकृञ् -' इत्यादिनेष्णुचू । अथवा दुरात्मना महामोहेनैव वञ्चितमिलनुषज्यते । अतः स एव हन्तव्य इति भावः ॥ -का- न्तेति । सुन्दरीति उत्पललोचनेति इन्दीवराक्षीति विपुलश्रोणीभरेति उन्नमत्पीनो त्तुङ्गपयोधरेति । उन्नमन्तौ प्रतिक्षणे वर्धमानौ पीनौ पृथुलाबुत्तुगावुन्नतौ पयोधरौ कुचौ यस्याः सा । बह्वच्कलात् 'न क्रोडादिवह्नचः' इति न ङीपू । सुमुखाम्भोजेति चारुमुखारविन्देति सुचूरिति । एवंप्रकारेण दृष्ट्वा बिमुह्यतीत्यर्थः । अत्र इतिना कर्मणोऽभिहितत्वात्प्रातिपदिकार्थमात्रे प्रथमा । तदुक्तं वामनेन 'निपातेनाप्य- मिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्' इति । अनभिहित- मात्रे तिङ् । कृत्तद्धितसमारौरित्यत्र संभवदभिप्राया परिगणनेति व्याचकार न्यासकारः । माद्यति मदवशादवशो भवति, मोदते हृष्यति, अभिरमते परि- क्रीडति, स्तौति तद्गुणान्कीर्तयति, विद्वानपि विवेकवानपि प्रत्यक्षेणाशुचिपुत्रि- सा प्रतीहारी । वेदविद्याभिमानिनी देवता वेदवती । [प्रतीहारी–यदेव आशाप- यतीति ।] विचारान्निर्गतो निर्विचारो विचारशून्यो यः सौन्दर्याभिमानस्तेन वधि- ष्णुना वृद्धिशीलेन कामहतकेन कामप्रेतेन जगद्विश्वं निहतं भ्रंशितम् । अथवेति । अतिकुत्सिते सौन्दर्यबुद्धिर्महामोहसाध्येति तात्पर्यन् ॥ – कान्तेति । अहो आश्चर्ये । मोहस्य दुश्चेष्टितमेतत् । एतत्किम् । विद्वानपि पण्डितोऽपि प्रत्यक्षमशुच्यपविन्नं मांसादि तस्य पुत्तिकां स्त्रियं दृष्ट्वा संभाव्य कान्तेत्यादि विशेषणैरिति प्रस्तौति । इतीति किम् । कान्तेत्यादि । कान्ता मनोहरा, उत्पललोचना कमलनयना, विपुलः स्थूल: श्रोणीभरो नितम्बभारो यस्याः, उन्नमन्तौ मिलन्तौ पीनौ मांसलावुत्तङ्गा- बुच्चौ पयोधरौ रतनौ यस्याः सा, सुठु मुखमम्भोजमिव यस्याः सा, सुष्टु ध्रुवौ यस्याः १ 'निहतं जगत्' इति पाठः ।