पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् 'प्रायः सुकृतिनामर्थे देवा यान्ति सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति || १४१ इति तत्त्वविदो व्याहरन्ति । तथा तु देव्या विष्णुभक्त्या सं- दिष्टं 'उद्योगः कामादिविजयविषये क्रियताम्' इति । अहमपि भ चदर्थे गृहीतपक्षेति । तत्र कामरतावत्प्रथमो वीरो वस्तुविचारेणैव जीयते । तद्भवतु । तमेव तावद्विजयार्थमादिशामि । वेदवति, आ- हूयतां वस्तुविचारः । दिकारणं यस्य । तस्येति यावत् । विमूलनायोन्मूलनाय विश्वेश्वरस्य जगदी- श्वरस्य जगन्नाथस्याराधनमुपासनं तदेव वीजमुत्पत्तिकारणं तस्माज्जातात्तत्त्व- प्रवोधात् तत्त्वं स्वयाथात्म्यं तस्य बोधो ज्ञानं तस्मात् । भक्तियोगानन्तरभाविला- ज्ज्ञानयोगस्येति भावः । तच्यतिरेकेण संसारवृक्षोच्छेद कोऽन्योऽभ्युपायो नास्ति । अबोधतत्कार्ययोर्योधैकनिवर्त्यत्वादिति भावः । अत्र 'अन्यारात्–' इत्यादिसूत्रेऽन्यशब्दार्थग्रह्णादपरशब्दयोगेऽपि पञ्चमी । अत्र संसारस्य बोधान्नि- वृत्त्या अवोधकार्यत्वमनुमानतयैव नापरोऽभ्युपाय इत्युक्तेरनुमानाख्यमङ्गमुक्तम् । तल्लक्षणं तु - 'अभ्यूहो लिङ्गतः सम्यगनुमानमुदीरितम्' इति ॥ ७ ॥ प्राय इत्या- दि । व्यवसित उद्युक्ते कर्मणि । भावे निष्टा व्यवसाये । अथवा आभाषकमे- तत् । गृहीतपक्षा गृहीतसाहाय्यका | कृतपक्षपातेत्यर्थः । यद्देव माज्ञापयतीति । कामहतक इति । हत इव हृतकः । उपमार्थे कः । तुच्छ इति यावत् । 'कुत्सि- तानि कुत्सनैः' इति समासः । तत्कथमित्यत आह । विचाराभावनिबन्धनः कान्ता- दिषु योऽयं सौन्दर्याभिमानस्तेन वर्धिष्णुर्वर्धनशील: अहमेव सुन्दर इति वृथाभि- । बोधात्तत्त्वसाक्षात्कारादपरोऽन्योऽभ्युपायः साधनविशेषो नैवास्ति । यतो ज्ञानमज्ञा-. नस्य घातकमित्युक्तत्वात् । किंभूतात्तत्त्वसाक्षात्कारात् । विश्वेश्वरस्याराधनं सेवनं मननादिरूपं तदेव बीजं कारणं तस्माज्जातस्तस्मात् । तच्च 'ईश्वर चोदनाभिव्यक्ताद्ध- मदेव' इति कणादमुनिनाप्यभाणि ॥ ७ ॥ अस्मिन्नर्थे देवा अपि सहकारिणो भव- न्तीत्याह – प्राय इति । तथा च देव्येति । देव्या विष्णुभक्त्या संदिष्टमाज्ञप्तम् । उद्योगः प्रयल: । अह्मपि । विष्णुभक्तिरपीत्यर्थः । तमेव वस्तुविचारमेव । निर्जयार्थ- मिति । कामस्येति शेषः । तावदादौ निर्जयार्थमादिशाम्याज्ञापयामि । या वेदवती - १ 'प्रायश्च सुकृतिनां व्यवसितेऽर्थे देवा यान्ति सहायताम्' इत्येव पाठो मुद्रि- तपुस्तकेऽस्ति । अत्रतु पद्यरूपेण निर्दिष्टः ।