पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् निःसारे मृगतृष्णिकार्णवजले श्रान्तोऽपि मूढः पिब- त्याचामत्यवगाहते ऽभिरमते मज्जत्यथोन्मज्जति ॥ ६ ॥ अथवा संसारचक्रवाह्कस्य महामोहस्याबोधो मूलम् । तस्य च तत्त्वाववोधादेव निवृत्तिः । यतः— अमुष्य संसारतरोरबोधमूलस्य नोन्मूलविनाशनाय | विश्वेश्वराराधनबीजजातात्तत्त्वावबोधादपरोऽभ्युपायः ॥ ७ ॥ 2. भिरहितेऽमृतसागराम्भसि ब्रह्मामृताम्बुधौ स्वतो मग्नोऽपि मनागपि किंचिदपि नाचामति नानुभवति । स्वरूपानन्दं नानुसंधत्त इत्यर्थः । अपि तु निःसारेऽति- तुच्छे मृगतृष्णिकार्णवजले मिथ्याभूतसंसारे विमूढः स्वस्वरूपमजानानः श्रान्त आयस्तः पिवति, आचामति, अवगाहते, अभिरमते, मज्जति उन्मज्जति च । महाजन इति शेषः । पिबतीत्यनेनातितृष्णावशात्पानम्, आचामतीत्यनेनाल्पपा- नम्, अवगाहनमन्तःप्रवेशः, अभिरमणं बालक्रीडा, मज्जनोन्मज्जने स्पष्टे । अयं भावः । सत्यज्ञानानन्तानन्दात्मकं स्वस्वरूपमजानानो जीवः संसारदशाम पन्नो- ऽविद्यावशादन्तःकरणधर्मान्दुःखदुरितादीन्, प्राणधर्मान्क्षुत्पिपासादीन्, देहध- र्माजरामरणादीन्, ममाहमित्यभिमानमूलकान् पुत्रमित्रकलत्रादिगतसाकल्य- वैकल्यादीनात्मन्यध्यस्य विनश्यतीति ॥ ६ ॥ - अथवेत्यादि । संसारचक्रे वाह- कस्य प्रापकस्य । प्रवर्तकस्येत्यर्थः । महामोहस्याहंममाभिमानरूपस्य कार्याज्ञानस्या- बोधः कारणरूपमनाद्यज्ञानं मूलम् । तत्त्वबोधादेव ब्रह्मात्मसाक्षात्कारादेव ॥ - -अमु. ध्येति । अमुष्य परिदृश्यमानस्य संसारतरोः संसारवृक्षस्य। संसारवृक्षत्वनिरूपणं श्रौ- तम्- 'ऊर्ध्वमूलमवाक्शाखं वृक्षं यो वेद संप्रति' इत्यादि श्रुतिभ्यः । अनेन संसारस्य वृक्षवनिरूपणेन बीजाङ्कुरत्नप्रतीतेस्तद्वदनादित्वं संसारस्य गम्यते । तद्द्वीजं तावदाह । अबोधमूलस्येति । अयोधो भावरूपाज्ञानं स एव मूलं बुनो बीजमा- अन्यस्य सतरङ्गत्वान्नि:सारे निस्तत्त्वे कार्यासमर्थत्वात् । मृगतृष्णिका मरुमरीचिका तदेवार्णवजलं सागरपानीयं तत्र श्रान्तो मूढोऽज्ञः पिवति, आचामति, अवगाहते, अभि- रमते, मज्जति, उन्मज्जति । मृगतृष्णारूपसंसारनिपतितो वञ्चित इति भावः । मृगतृष्णा- यामिदं जलमिति मत्वा मनसैव पानाचमनावगाहनाभिरमणमज्जनोन्मज्जनान्याचर- तीति । यद्वा पिवतीत्यादौ पानाद्यनुकूलयलवानित्यर्थः । तथाच स्थले च युधिष्ठिराधिष्ठितसभायां दुर्योधनस्य पानावगाहनाद्यभावेऽपि तदनुकूलयलेऽपि नानु- पपत्तिरुत्तरार्धे इत्यर्थः ॥ ६॥ पूर्वफक्किकायामुक्तं लोकेनाह – यतः - अमुष्येति । अमुष्य इदानीमुपलभ्यमानस्य संसारतरोः संसारवृक्षरयाबोधोऽभावरूपाज्ञानं तदेव मूलमारम्भकं यस्य तादृशस्य उन्मूलविनाशनाय सवासनाज्ञानविनाशनाय तत्त्वाव- लम्रान्ला [चतुर्थोऽङ्कः