पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् तृतीयोऽङ्कः । (ततः प्रविशति शान्तिः करुणा च ।) शान्ति: – ( सास्रम् ) मातः मातः, कासि । देहि मे प्रिय दर्शनम् । ततः - - ३] मुक्तातङ्ककुरङ्गकाननभुवः शैलाः स्खलद्वारयः पुण्यान्यायतनानि संतततपोनिष्ठाश्च वैखानसाः । यस्याः प्रीतिरमीषु सात्रभवती चण्डालवेश्मोदरं प्राप्ता गौः कपिलेव जीवति कथं पाषण्डहस्तं गता ॥ १ ॥ अथवालं जीवितसंभावनया । यतः - ततः प्रविशतीत्यादि । शान्तेरुत्तमपात्रत्वात्संस्कृतभाषया कथनं नैज- मेव । यद्वा नाटके परिभाषावशास्त्रीणां प्राकृतभाषयैव वक्तव्यम् । परिदेव- नरूपकार्यायत्ता संस्कृतभाषापि भाषापर्याय इति विज्ञेयम् । अत्र खत एव पात्रप्रवेश इति ज्ञेयम् । तथा चोक्तम् – 'प्रायोपवृत्तचित्तानां शोकापहतचेतसाम् । परैराधर्षितानां च स्वत एव प्रवेशनम् ॥' इति । मातः मातरिति दुःखे वीप्सा | क्वासीत्यादीनि प्रलापवचनानि ॥ मुक्तातङ्केत्यादि । मुक्तातङ्ककुरङ्गकाननभुवः मुक्तातङ्कास्ल्यक्तभयाः कुरङ्गा यासु काननभूमिषु ताः । ऋषिवनानीत्यर्थः । वैखा- नसा ऋषयः । यस्या इत्यादि । परिदेवनवशात्परितो निर्दिश्योक्तिः । अन्यत्स्पष्टम् द्वितीयेऽङ्के तत्तद्धर्मांनुष्ठान वैफल्याय दम्भादीन्प्रेषयामास महामोहः । इदानीं तृतीयेऽङ्के विवेकसैन्यपराभवाय पाखण्डाडम्बरः ॥ साखमस्त्रैः सहितम् । प्रियदर्शनं प्रि- यमिष्टं दर्शनम् ॥—मुक्तातङ्केति । सात्रभवती पूज्या पाखण्डहस्तं गता वेदवाह्य- कराक्रान्ता कथं जीवति । न कथमपीत्यर्थ: । सा का । यस्या अमीषु वक्ष्यमाणेषु प्रीतिरस्तीत्यध्याहारः । अमी के तानाह — मुक्तातङ्केति । मुक्त आतङ्को भयं यैस्ते तादृशा ये कुरङ्गा गृगास्ते यासु तादृश्यः काननभुवो वनस्थल्यः । स्खलन्ति वारीणि जलानि येभ्यस्ते तादृशाः शैलाः । तथा पुण्यानि पवित्राण्यायतनानि देवतागृहाणि । संततमनवरतं तपोनिष्ठ स्तपोनिरता वैखानसा वानप्रस्थाः । कथं जीवतीत्युक्तं तत्र दृष्टान्तमाह । चाण्डालस्य वेइम मन्दिरं तस्योदरं मध्यं प्राप्ता कपिला गौरिव । यथा कपिला गौर्हन्तॄणां गृहमध्यं प्राप्ता कथमपि न जीवति तथा भवती पाखण्ड- हस्तं गता कथमपि न जीवतीत्यर्थ: । कपिलेत्यनेन गवां कपिला गौर्यथोत्तमा एवं