पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् न मामनालोक्य न स्त्र|ति न भुङ्क्ते न पिबत्यपः । न मया रहिता श्रद्धा मुहूर्तमपि जीवति ॥ २ ॥ तद्विना श्रद्धया मुहूर्तमपि शान्तेर्जीवितं विडम्बनमेव । तत्सखि करुणे, मदर्थे चितामारचय | यावदचिरमेव हुताशनप्रवेशेन तस्याः सहचरी भवामि । [तृतीयोऽङ्कः करुणा—(साखम्) *सहि, एव्वं विसैमज्जलणज्जालाउल्लका दु:- सहाई अक्खराई जप्पन्ती सव्वधा विलुत्तजीविदं मं करेसि । ता प्पसीददु मुहूत्तं जीविदं धारेदु पिअसही । जाव इदो तदो पुण्णेसु अःसमेसु मुणिअणसमाउलेसु भाईरहीतीरेसु णिउणं निरुवेलि कआवि महामोहमीदिआ कहमवि पच्छण्णा णिवसदि ।

  • सखि, एवं विषमज्वलनज्वालोल्कादुःसहान्यक्षराणि जल्पन्ती

सर्वथा विलुप्तजीवितां मां करोषि । तस्मात्प्रसीदतु मुहूर्ते जीवितं धार- यतु प्रियसखी । यावदितस्ततः पुण्येष्वाश्रमेषु मुनिजनसमाकुलेषु भा- गीरथीतीरेषु निपुणं निरूपयामि कदाचिन्महामोहमीत्या कथमपि प्रच्छन्ना निवसति । ॥ १ ॥ अलमिति । मृतेव प्रतिभातीत्यर्थः । तदेव स्फोरयति – मामनालो- क्येति । जीवनं विडम्बनमेवोपहासास्पदमेव ध्रुवम् । शेषं व्यक्तम् ॥ २ ॥ श्रद्धा शान्त्यादीनां मध्य उत्तमेति भावः ॥ १ ॥ मामनालोक्येति । मामना- लोक्यादृष्ट्वा स्लानभोजनजलपानानि न कुरुते । अत एव हेतोर्मंया रहिता श्रद्धा' क्षणमपि न जीवतीति शान्तेरुक्तिः । अनेन श्रद्धाशान्त्योर्व्याप्तिर्शिता ॥ २ 11 [ करुणा – सखि, एवं विषमज्वलनज्वालाकुलकर्णकटुदुःसहान्यक्षराणि जल्पन्ती सर्वथा बिलुप्तजीवितां मां करोषि । तत्प्रसीदतु मुहूर्तकं जीवितं धारयितुं प्रियसखी । याव- दितस्तत: पुण्येष्वाश्रमेषु मुनिजनसमाकुलेषु भागीरथीतीरेषु निपुणं निरूपयामि कदाचिन्महामोहभीता कुन्नापि प्रच्छन्ना निवसति ।] विषमा अत्युग्रा ज्वलनस्याग्ने- -१ अत्र 'तद्विनेत्यारभ्य तत्सखि' इत्यन्तः पाठो लिखित पुस्तके नास्ति । २ 'वि समजलणजालाउलकण्णकटुदुःसहाई-प्पसीददु मुहुत्तकं जीविदं धारेदुं— भागीरही- कहिंवि' इति पाठः ।