पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J प्रबोधचन्द्रोदयम् विभ्रमावती – * एसो महाराओ । उक्सप्पदु पिअसही । मिथ्यादृष्टिः– (उपसृत्य) जिअदु जअदु महाराओ । महामोहः– प्रिये, - [द्वितीयोऽङ्कः देलितकुचनखाङ्कमङ्कपाली रचय ममाङ्कमुपेत्य पीवरोरु ।. अनुहर हरिणाक्षि शंकराङ्कस्थित हिमशैलसुता विलासलक्ष्मीम् ३५ (मिथ्यादृष्टिः सस्मितं तथा करोति ।) महामोहः– (आलिङ्गनसुखममिनीय) अहो, प्रियायाः परिष्वङ्गा- परावृत्तं नवयौवनम् । तथाहि —

  • एष महाराजः । उपसर्पतु प्रियसखी ।

जयतु जयतु महाराजः । । ‘इति लक्षणात् । नीलेन्दीवरदामदीर्घतरया | नीलशब्देनेन्दीवराणां दरविकसितत्वं द्योयते । इन्दीवराणां दाम सक् तद्वदीर्घतरात्यन्तायता तया दृष्टया कटाक्ष- • मालया यूनां मनो धयन्ती पिवन्ती । आकर्षयन्तीत्यर्थः । दोष्णोर्हस्तयोरान्दो- लनं चालनं तेन लोलानां चञ्चलानां कङ्कणानां रणत्कारो ध्वनिविशेषस्तेनोत्तर- मुत्कटं रम्यं यथा भवति तथा सर्पत्यागच्छति । विभ्रमतीत्यर्थः । 'अन्येभ्योऽपि दृश्यते” इति दीर्घः । अमरावतीवत्साधुः ॥ ३४॥ दलितकुचेति । दलितकुचन- खाङ्कम् । क्रियाविशेषणम् । अङ्कपालीमालिङ्गनं रचय कुरु | गाढालिङ्गनं कुर्वित्यर्थः । । मिषं तस्मालीलयोत्क्षिप्तौ भुजौ यया सा । पुनः कीदृशी । उपदर्शितौ यौ कुचौ स्तनौ तत्रोन्मीलन्ती प्रकाशमाना नखाकानां नखक्षतानामावलिः पतिर्यस्याः सा । पुनः कीदृशी । नीलानि यानीन्दीवराणि नीलोत्पलानि तेषां दाम माला तद्वद्दीर्घ- तरया दृष्ट्या मनो धयन्ती पिबन्ती । मीणयन्तीति यावत् ॥ ३४ ॥ [विभ्रमा - एप महाराजः । उपसर्पतु प्रियसखी |] मिथ्यादृष्टिः - जयतु जयतु महाराजः । दलि- तेति । भोपीबरोरुपीवरौ मांसलावूरू यस्यास्तत्संबोधने भो पीवरोरु प्रिये, द- लिताः प्रकटाः कुचयोर्नखाङ्काः स्तनयोर्नखक्षतानि यस्यां क्रियायां यथा स्यात्तथा । अङ्कपालीमालिङ्गनं रचय देहि । किं कृत्वा । ममाङ्कमुपेत्य । भो हरिणाक्षि शंकराङ्के शंकरोरौ स्थिता चासौ हिमशैलसुता च हिमपर्धेतपुत्री तस्या विलासस्तस्य लक्ष्मीं शोभामनुहरानुकुरु । एतेनोमामहेश्वराविव निर्वाधगावाभ्यां स्थातव्यमिति ध्वनितम् ॥ ३५ ॥ सस्मितं सहासं तथा करोति । आलिङ्गनसुखमनुभवतीत्यर्थः । परिष्वङ्गा- .१ 'जेदु जेदु महालाओ' इति पाठः । २ 'नखदलितकुचा' इति पाठः ।