पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] चन्द्रिका-प्रकाशांख्यटीकाद्वयोपेतम् ८९ महाराअं संभावयंदी संकिदहिअअं करिस्सदि पिअसहीति तक्केमि । मिथ्यादृष्टिः– *किं एत्थ संकिदव्वं । णं अह्माणं महाराअ- णिउत्ताणं जेव्व एसो अविणओ । अविञ सहि, दंसणमत्तपसण्णाणं पुरिसाणं पुरो कीरिसं भअम् । महामोहः– (विलोक्य) अये, संप्राप्तैव प्रिया मिथ्यादृष्टिः । या एषा- - श्रोणीभारभरालसा दरगलन्माल्योपवृत्तिच्छला- ल्लीलोत्क्षिप्तभुजोपदर्शितकुचोन्मीलन्नखाङ्कावलिः । नीलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो दोषान्दोलनलोलकङ्कणरणत्कारोत्तरं सर्पति ॥ ३४ ॥ लच्चरणनूपुरझङ्कारमुखरया गत्या महाराजं संभावयन्ती शङ्कितहृदयं करिष्यति प्रियसखीति तर्कयामि ।

  • किमत्र शङ्कितव्यम् । महाराजनियुक्तानामेवैषोऽविनयः । अपिच

सखि, दर्शनमात्रप्रसन्नानां पुरुषाणां पुरतः कीदृशं भयम् । रो वृद्धो युवा तरुणो वा कौमाराद्यवस्थापन्नः कश्चन वा भवत्वित्यर्थः ॥ — श्रो- णीभारेति । भ्रियत इति भारः भृतकं श्रोणीभार इव । उपमितसमासः । तस्य भरोऽतिशयस्तेनालसालसगमना । दरगलन् किंचिद्विगलितो माल्यस्यो- पवृत्तिच्छलाद्यथास्थानस्थापनव्याजाब्याजमवलम्ब्य लीलया विलासेनोत्क्षिप्तेन भु- जेनोपदर्शिता कुचयोरुन्मीलन्ती विजृम्भमाणा नखाकावलिर्यस्याः सा । अत्र स्वभावोक्तिरलंकारः । ‘नानावस्थां पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावश्च' स्तेन मुखरया सशब्दया | [ मिथ्यादृष्टिः– किमत्र शङ्क्तिव्यं, न चास्माकं महा- राजनियुक्तानामेवैषोऽविनयः | अपिच सखि, दर्शनमात्रप्रसन्नानां पुरुषाणां कीदृशं भयम् ।] या एपेति । श्रोणीभारेति । या एषा अगणितगुणग्रामा दोलाया आ- न्दोलनं चालनं तद्वल्लोले चञ्चले ये कङ्कणे करभूषणे तयोर्यो झणत्कारः शब्दः स उत्तरोऽग्रवर्ती यत्र यस्यां क्रियायां यथा स्यात्तथा सर्पत्यागच्छति । कीदृशी । श्रोण्या भारो नितम्बभारस्तस्य भरोऽतिशयस्तैनालसा | पुनः कीदृशी | दरमीषत् अर्थात् शिथिलधम्मिलागलन्ति च तानि माल्यानि च तेषां योपवृत्तिः संवरणं तस्य छलं १ 'महालाअ— अविणवो – केरिस' इति पाठः ।