पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२] यः चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् प्रागासीदभिनववयोविभ्रमावाप्तजन्मा चित्तोन्माथी विविधविषयोपप्लवानन्दसान्द्रः । वृत्तीरन्तस्तिरयति तवाश्लेषजन्मा स कोऽपि प्रौढ: प्रेमा नव इव पुनर्मान्मथो मे विकारः ॥ ३६॥ मिथ्यादृष्टिः—*महाराअ, अहंवि संपदं नवजोवण संवत्ता । ण खु भावाणुबन्धो प्पेमा कालेणावि विघडिअदि । आणवेदु म- हाराओ किंणिमित्तं भट्टिणा सुमरिदमि । महामोहः— प्रिये, -

  • महाराज, अहमपि सांप्रतं नवयौवना संवृत्ता । न खलु भावानुबन्धः

प्रेमा कालेनापि विघटते । आज्ञापयतु महाराजः किंनिमित्तं भट्टार- केण स्मृतास्मि । अङ्कमुपेत्येत्यादि निदर्शनम् ॥ ३५ ॥ परावृत्तमिति भावे निष्ठाप्रत्ययः । यः प्रागासीदित्यादि । कोप्यनुभवैकवेद्यः प्रौढ उद्विक्तो नव एव पुनर्मान्मथो मारजो विकारो वृत्तीर्वाह्याभ्यन्तरविषयगास्तिरयत्यन्तर्हिताः करोति ॥ ३६ ॥ दालिङ्गनात्परावृतं व्यतीय पुनरागतम् ॥–यः प्रागासीदिति । स कोऽप्यचि- न्त्यसामर्थ्यः मान्मथ मन्मथात्कंदर्पाज्जातो विकारः परिणानो मे नमान्तवृत्तीर्मा- नसवृत्तीस्तिरयति तिरस्करोति । स कः । योऽभिनवं च तद्वयश्च नूतनं वयस्तस्य विभ्रमो विलासस्तस्मादवाप्तं जन्म येन तादृशः प्रागासीत्पूर्व बभूव । मान्मथो वि- कारः कीदृशः । चित्तं मन उन्मश्नात्युन्मादयुक्तं करोति तच्छील: । पुनः कीदृशः ॥ विगतो विविधो विषयोपलवो विषयसंबन्धो यस्मिन्नेतादृशो य आनन्दस्तेन सान्द्रो घनः । पुनः कीदृशः । तवाश्लेष आलिङ्गनं तस्माज्जन्म यस्य सः । पुनः कीदृशः । प्रौढं प्रेमोत्कृष्टा प्रीतिर्यस्मिन्सः । पुनरिति वितकें । नव इव न जातो न जनि- घ्यते तादृश इत्यर्थः ॥ ३६॥ [मिथ्यादृष्टिः– महाराज, अहमपि सांप्रतं नव- यौवनेव संवृत्ता, न खलु भावानुबद्धं प्रेम कालेनापि विलीयते । आशा- पयतु महाराजः । किंनिमित्तं भट्टारकेण स्मृतास्मि 1] भावो मनोभिप्रायस्तेना- - १ 'जोवणा विअ संवुत्ता । णं खु भावानुबद्धं पेम कालेणावि विलीअदि इति पाठः ।