पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ६९ ) मुद्रणकाले येषां तत्त्ववैशारदीगत-वचनानामाकरस्थलानि न निर्दिष्टानि, तेषामिह लिख्यते – १११ तत्त्ववैशारदीधृतं हिरण्यगर्भेत्यादिवचनं योगि- याज्ञवल्क्येऽस्ति ( १२५ ) । १।१६ गतानि वायुपुराणवचनानि न वायुपुराणे प्राप्यन्ते, परन्तु वायौ १०१ अध्याये एतत्सजातीयो विषयो विद्यते । शंकर कृतयोगभाष्यव्याख्यानम्':- अद्यावधि अश्रुतपूर्वा अप्रकाशिता चेयं व्याख्या । अत एवास्य प्रकाशको धन्यवादाईः । टीकेयम् प्रस्थानत्रयी- भाष्यकारेण कृतेति विवरणग्रन्थ-सम्पादकानां मतम् । मतमिदमसमीचीनमित्यु- परिष्टाद् विवेचयिष्यते । अत्र क्वचित् सम्पादकयोरनवधानं लक्ष्यते । तथाहि — भूमिकायां तैरित्थं प्रतिपादितं यदस्य व्याख्यानस्य प्रणेता प्रस्थानत्रयीभाष्यकारः शंकर एव । ग्रन्थे पुनर्यत्र 'अन्येषां व्याख्यानम्' इति शंकरेणोक्तम् ( पृ० ५५ ), तत्र ‘वाचस्पतिकृतं तद् व्याख्यानम्' इति सम्पादकौ कथयतः । वाचस्पतिपूर्वका- लिकः शंकरः 'अन्येषाम्' इति पदेन वाचस्पति मतं लक्षयति- इति अहो मोहः सम्पादकयोः ! अपि चोक्तं ( पृ० २२ ) सम्पादकेन 'भाष्यमपि तयोः स्वरूपोपलम्मे सती स्यादि' वाक्यमभिलक्ष्य – “इदानीन्तनमुद्रितपुस्तक इदं भाष्यं नोपलभ्यत" इति । मतमिदमनवधानमूलकमिति, यतो हि २|६ योगभाष्ये 'स्वरूपप्रतिलम्मे- त्यादि'वाक्यं वर्तत एव । विवरणकारः पुनरपि ( पृ० १६१ ) भाष्यवाक्य- मिदं सस्मार—अतः प्रतीयते न सम्पादकाभ्यां भाष्यविवरणग्रन्थः सुविचार्य सम्पादितः। क्वचिच्च मुद्रणप्रमादा दृश्यन्ते, ते च संस्करणान्तरे दूरीकरणीया इति । सूत्रपाठभेदाः– विवरणे सूत्रपाठमेदा बहुत्रोपलभ्यन्ते, तदुदाहरणानि च द्वितीये प्रकरणे द्रष्टव्यानीति । भाष्यपाठभेदाः– विवरणे व्यासभाष्यस्य बहवः पाठभेदा दृश्यन्ते । ग्रन्थ- सम्पादकैश्च सर्वत्र टिप्पण्यां पाठभेदा निर्दिष्टाः। केचन पाठभेदा इह संगृह्यन्ते- १. Madras Government Oriental Series समाख्ये 'ग्रन्थ प्रकाशने' प्रकाशितमिदं विवरणम्। अस्य प्रधानसंपादकाः टी० चन्द्रशेखरन् महा- भागाः, सम्पादकौ भूमिका- लेखकौ च श्रीरामशास्त्रि- कृष्णमूर्तिशास्त्रिणौ ।