पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ७० ) १।७ पृ० २६ – विन्ध्यश्चाप्राप्तेरगतिः; १।१७ पृ० ४७- एकरूपात्मिका संविदस्मिता, तमणुमात्मानमन्ववैत्यास्मीत्येतावत् सम्प्रजानीत इति; १।२६ पृ० ७४–यत्रावच्छेदार्थः कालो नोपावर्तते; १।४७ पृ० ११३ क्रमानुरोधी; २।४ पृ० १२९ –स हि तदा प्रसुप्तस्तनुर्वेति, २।६ पृ० १४०-मरणं मान्वभूवं भूयासमिति; २|१३ पृ० १५०–कर्माशयः प्रचयविचित्रः; २|१३ पृ० १५७– न तु दृष्टजन्मवेदनीयस्य अनियतविपाकस्य वा अदृष्टजन्मवेदनीयस्य; २।१५ पृ० १६४– हातव्याहङ्कार; २।१८ पृ० १७७-परस्परतो भिन्ना अनि असंभिन्नशक्ति; २।१८ पृ०१८१–ग्रहणधारण विज्ञानोहापोहक्रियावचनयथा- न्यायावधारणाभिनिवेशाः । एवमन्येऽपि पाठभेदा उपलभ्यन्ते विस्तर मया सर्वे पाठभेदाः संकलिताः । क्वचिच्च विवरणे भाष्यपाठाधिक्यं दृश्यते, यथा २|१३ व्याख्याने 'त्रिवि- पाकारम्भो वा जन्मायुर्भोगहेतुत्वादिति' वाक्यांशो द्विविपाकपरभाष्यवाक्याद् अनन्तरं पठितः । नायं पाठोऽन्यत्र । कोऽयं विवरणकारः- विवरणसम्पादकयोमतेन प्रस्थानत्रयीभाष्यकारः शंकर एवास्य प्रणेतेति । मतमिदं न युक्तिसहम् । यदि नाम शंकराचार्यों भाष्यमिदमद्रक्ष्यत्, न सोऽध्यासभाष्येऽकथयिष्यत् यच् चिद्रूप आत्मा भोक्ता न भवितुमर्हति ( द्र० पृ० २२-२३ ) । तथैव तप्यतापकभावविषये शंकरेण ये दोषाः प्रदत्ताः, सांख्यसंमतपुरुषार्थविषये च सांख्यपक्षो यथा तेन दूषितस्तेन गम्यते न शंकरो भाष्यमिदं दृष्टवानिति ( पृ० २२) । भाषाप्रयोगदृष्टयाऽपि विवरणं न शारीरकभाष्यसदृशम् । उभयोग्रन्थयोरेकविषयत्वे सत्यपि विवरण- गतभाषाया अप्रौढत्वमेव ज्ञापयति यदिदं विवरणं न शंकरलेखनीतः प्रसूतमिति । विवरणकार-जयमङ्गलाकारयोरैक्यम्-अस्माभिश्चिन्स्यते यत् सांख्य- कारिका - जयमङ्गलाकारः शंकरो भाष्यविवरणस्य प्रणेता भवितुमर्हति । अत्र युक्तयः- १ – पुष्पिकासाम्यमुभयत्र । २ – जयमङ्गलायां विवरणे च शब्दानधिकृत्य प्रकृति-प्रत्यय-समासादि-विषयको निष्प्रयोजनो विचारो बहुत्र कृतः । एतादृशं शैलीसाम्यं नूनमुभयोरेकत्वं ज्ञापयति । ३ – कचिञ्च विचारसाम्यम् । अथात्र जयमङ्गलागतशब्द विचारस्थलानि प्रस्तूयन्ते- १ - दुःखानां त्रयं दुःखत्रयम् ( १ का० ); २ – तदवघातके तुजकाभ्यां पष्ठी-समासप्रतिषेधः तत्प्रयोजको हेतुश्चेति न भवति ( १ का० ); ३-अनुश्रवो