पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(९४४ ) यशोविजयविदुषा पातञ्जलयोगसूत्रमाश्रित्य काश्चन द्वात्रिंशिका अपि विरचिताः-यातञ्जलयोगलक्षणविचारद्वात्रिंशिका, ईश्वरानुग्रह विचारद्वात्रिंशिका, योगद्वात्रिंशिकावतारः, क्लेशहानोपायद्वात्रिंशिका, योगमाहात्म्यद्वात्रिंशिका च इदं प्रतीयते यत् 'तदा द्रष्टुः स्वरूपेऽवस्थानम्' इति योगसूत्रं ( ११४ ) तत्त्वार्थश्लोकवार्त्तिके विद्यानन्दस्वामिना स्मृतम्, यथाह सः- “यदपि द्रष्टु- रात्मनः स्वरूपेऽवस्थानम् ध्यानं परममुक्तिनिबन्धनं तदपि" (पृ०१८) इति । पातञ्जलयोगानभिज्ञाः केचन विद्वांसः- गार्बेनामा कश्चिद् विद्वान् भणति यद् योगसूत्रगतमीश्वरप्रकरणम् (११२३-२७) एतद् ग्रन्थबर्हिर्भूतमेव मन्तव्यम्, यत एतत्प्रकरणं एतदर्शनोचितदृष्टिविरोधीति ( The Philosophy of Ancient India पृ० १५) । तदिदं मूर्खमनोहरं वाक्यम्, यतो हि ईश्वर- चित्तादिकं सर्व सांख्ययोगानुमोदितमेव । ऐशं स्वरूपं कोहशमिति योगविद्यात एवावगन्तव्यमिति । तथैव कश्चिद् ब्रूते-कठादिगता या योगविद्या, सा न पातञ्जलयोग एव ( I. P. पृ० ३३६ ) । तदिदं चिन्तनीयं यतीहि कठादिषु योगजप्रज्ञाविज्ञेया ये अर्थास्ते सर्वे इहापि स्वीकृतास्तथैव । 'यत्र प्रमाणस्य प्रमेयस्य चैक्यं भवति, तत्र प्रमितेरैक्यं न’ इति यदि कश्चिद् ब्रूयात् तर्हि न स विचक्षण इति स्वीकार्यमेव । पूर्वे विद्वांसोऽपि पातञ्जलदर्शनशानेऽनभिशा आसन् । योगसम्मताऽविद्या- विषये जैनविदुषां हेमचन्द्रादीनामाक्षेपा अज्ञतामूला एव ( द्र० अन्ययोग- व्यवच्छेदिका, १५ ) । तत्त्वार्थश्लोकवार्त्तिके विद्यानन्दिस्वामिकृते योग- सम्मत-प्रधानस्वभावविषये य आक्षेपाः प्रदत्ताः, तेऽपि योगाज्ञानमूलका एवेति । शास्त्रवार्तासमुच्चये हरिभद्रकृते योगसम्मत-भोगविषये या समीक्षा कृता, सापि योगतात्पर्यमज्ञात्वैव कृतेति दृश्यते । बिस्तरस्तु योगविद्येतिहास-ग्रन्थे द्रष्टव्यः । योगसूत्ररचनारीतिः, सौत्रपदप्रयोगश्च – मन्थोऽयं सूत्रपद्धत्या रचितः, अतः सूत्ररचनारीतिमनुसृत्य अनुवृत्तिपद्धतिरप्याश्रिता सूत्रकृता । अत एव १।३६ व्याख्याने भाष्यकार आह— “प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी- त्यनुवर्तत" इति । वाचसतिरपि बभाषे– “अत्र चोत्तरसूत्रगतात् स्थिति- निबन्धनीतिपदात् स्थितिग्रहणमाकृष्य संपादयेद् इत्यर्थप्राप्तेन संबन्धनीय- मिति” ( १ । ३४ ) । अत एव वृत्तिरित्यनुवर्तमाने 'अभावप्रत्ययालम्बना वृत्ति- निंद्रा' इति सूत्रे (१।१०) पुनर्वृत्तिग्रहणस्य प्रयोजनं व्याख्यातमाचार्यैः । क्वचिच्च सूत्रेऽव्ययपदानि भिन्नक्रमतया स्थापितानि । 'ता एव सबीजः समाधिः (१।४६) इति सूत्रीय एवकारो भिन्नक्रम इति वाचस्पतिः ।