पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४५ ) - यथाह - "एवकारो भिन्नक्रमः, सवीज इत्यस्थानन्तरं द्रष्टव्यः" । कथं भिन्न- क्रमतयाऽयं शब्दः पठित इति प्रश्न उदेति । मन्ये - श्लोकमयं किमपि वाक्यम् अस्य सूत्रस्याधारभूतं, श्लोके तु छन्दोरक्षार्थम् एवकारो भिन्नक्रमतया पठित आसीत्, तदनुरोधेन इहापि तथैव पठितः । भिन्नक्रमपठनस्य नान्यो हेतु- रुपलभ्यते । अष्टाध्याय्यामपि चकारादयो भिन्नक्रमतया पठिताः, तत्रापि अयमेव हेतुरुच्यते ( द्र० संस्कृतव्याकरणशास्त्र का इतिहास, भाग १ अ०५ ) । क्वचिच्चार्यक्रममनादृत्य सूत्रं प्रणीनम् | यथाह वाचस्पतिः - "तत्र च ग्रही- तृग्रहणग्राह्येष्विति सौत्रः पाठकमोऽर्थक्रमविरोधान्नादर्तव्यः । एवं भाष्येऽपि प्रथमं भूतसूक्ष्मोपन्यासो नादरणीय इति सर्वं रमणीयम्” इति ( १ । ४१ तत्त्ववे० ) । अनुशयीति पदं पतञ्जलिः प्रायुङ्क्त- 'सुखानुशयी राग' इति (१।७) । अत्रानुशयीत्यत्र ताच्छील्यार्थे णिनिरिनिर्वा मत्वर्थीय इति विचारितं वैयाकरणेन सायणेन ( द्र० सर्वदर्शनसंग्रहः, पृ० ३६३-३६४), सिद्धान्तितं च यदत्र तद्धितेनिः प्रत्यय एव, न णिनिः । तथैव ४/५ सूत्रगतम् 'अनेकेषाम्' इति पदं शब्दशास्त्रदृशा साधु, न वेति विचारितं सायणेनैव माधवीयधातुवृत्तौ । यथाह – “अथ एकशब्दस्य ...... सिध्यति बहुवचनम्, न बहुव्रीहाविति निषेधात् सर्वनामकार्यं शीभावो न सिध्यति । अथवा, एवं समर्थनीयः- एकशब्दोऽसहायवचनः, अनेके सहाया इत्यर्थः । तथा च योगपातञ्जले-चित्तमेकम नेकेषामिति प्रयुज्यते" इति ( पृ० २४६ ) । केचित् पुनः अनेकेषामितिपदं महाभाष्यविरुद्ध मिति मत्वा न खलु महाभाष्यकारो योगसूत्रकार इत्यभिदधुः । सूत्रपद्धत्या रचितत्वात् सूत्रोपात्तपदसार्थक्यविचारोऽपि पूर्वाचार्यैः कृतः । अत एव 'चित्तवृत्तिनिरोध' ( १ | २) इत्यत्र 'सर्वचित्तवृत्तिनिरोध' इति कथं न कथितमिति विचारितो भाष्यकारेण । अस्माभिरपि मन्यते यत् 'तदर्थ एव दृश्यस्यात्मा' ( १।२१ ) इत्यत्र दृश्यात्मेति वक्तव्ये दृश्यस्यात्मेति ब्रुवन् सूत्रकारः 'दृश्यमेकम्' इति सिद्धान्तमभ्युपैति । बाचस्पतिश्च 'दृग्दर्शनशक्त्योरेकात्मते- वास्मिता' ( २१६ ) इत्यत्र शक्तिपदोपादानस्य रहस्यं दर्शयामास । 'श्रद्धा- वीर्यस्मृतिसमाधिप्रज्ञापूर्वक सूत्रे ( १ | २० ) श्रद्धादीनां क्रमिकं स्थापनं कार्यकारणात्मकतामेषां श्रद्धादीनां दर्शयतीति व्याख्यातारः । एवमन्येष्वपि . सूत्रेषु चिन्तनीयं बुधैः । योगसूत्रव्याख्यानानि – योगसूत्रस्य उपलब्धानि सर्वाणि व्याख्यानानि नातिप्राचीनानीति | प्राचीनव्याख्यान संबद्धा चर्चा योगभाष्यप्रसङ्गे करिष्यते । योगसूत्र व्याख्यानानां प्रचलितानां विवरणमिह प्रस्तूयते ।