पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४३ ) ऽस्ति ( २ | १२ ) । अत्र बौद्धाचार्यचिन्तनस्य मूलं खलु पातञ्जलमेवेति प्रतीयते। संकीर्णश्च बौद्धानुमतविभागः । अत्रेदं विज्ञेयं यद् बौद्धाचार्याः पूर्ववर्तिशास्त्रेभ्य एव प्रधानतः स्वाभिमत- शब्दान् संजहुः । श्रमण -श्रामणक-शब्दौ वैदिकौ । अन्येऽपि निर्वाणादयो बौद्धर्व्यवहृताः शब्दा वैदिकसंप्रदायीयग्रन्थत एव संकलिताः, तेषाम् अर्थे च ईषत् परिवर्तनं कृतं बौद्धैः क्वचिदित्येवाभ्युपेयम् । अष्टाङ्गिकमार्गोऽपि वनपर्वणि कण्ठत उक्तः ( २१७८-७६ ) | नेदं स्थलमर्वाचीनम् अपि तु मूलभारतगतम् । अष्टाङ्गमार्गशब्दोऽपि ( वनपर्व २ । ७७ ) अत्र प्रयुक्तः । बौद्धशास्त्रे चत्वारि आर्यसत्यानि प्रोक्तानि संयुत्तनिकायादिषु, तदेतद् अपि. दर्शनं योगदर्शनानुसारीति स्पष्टमेव । ( द्र० योगभा० २।१५ ) , जैनप्रन्थे पातञ्जलयोगप्रसङ्गः - जैनदर्शनेऽपि ध्यानसमाध्यादयः शब्दाः आर्षग्रन्थत एव समाहृता इत्यभ्युपेयम् । जैना अपि मोक्षमार्गप्राप्तये ( मोक्ष- शब्दोऽपि बहुलं प्रयुज्यते जैनैः ) सम्यग्दर्शनस्थ ज्ञानस्थ चापरिहार्यतां वदन्ति । सवितर्कादिध्यानभेदा अपि जैनसूत्रेषु दृश्यन्ते । विषयेऽस्मिन् पं० सुखलाल- कृता पातञ्जलदर्शन-भूमिका द्रष्टव्या । ये च सवितर्क-निर्विचार-विचार-महाव्रत-कृतकारितानुमोदित-सोपक्रम- वज्र संहनन-बल- केवलि-कुशल-क्षीणक्लेश-चरमदेह-ज्ञानावरणीयकर्मादयः शब्दाः जैनेषु प्रसिद्धाः, ते प्रायेण योगसूत्र दर्शितार्थेष्वेव प्रयुक्ताः । पातञ्जलयोगस्य साक्षादुल्लेखः हरिभद्रसूरिणा कृतः ( योगबिन्दुग्रन्थे ) । यशोविजयकृताध्यात्मसार-ग्रन्थेऽपि पातञ्जलयोगनिर्देशो वर्तते। योगविंशि- काटीकायां (श्लो० ६६ ) 'योगमार्गज्ञैरध्यात्मविद्भिः पतञ्जलिप्रभृतिभि'- रित्युक्तम् । तथैव योगदृष्टिसमुच्चयटीकायामपि ( श्लो० १०० ) 'तथा चाह महामतिः पतञ्जलिः' इत्युक्तम् । तत्त्वार्थाधिगमसूत्रेऽपि योगसूत्रसाम्यमस्ति । तच्चातात्त्विकम्, यथा- 'भवप्रत्ययो नारकदेवानाम्' ( १।२२), 'एकाग्रचिन्तानिरोधो ध्यानम्' (६।२७ ) इति । अविद्याविषये जैनदृष्टिर्बहुलं योगदर्शनानुसारिणोति ज्ञेयम् । १. द्र० शतपथ ० १४/७/१॥२२, अस्थार्थः परिव्राडिति । बुद्धलक्षणं शान्ति- पर्वण्युक्तम् ( २८|३२ ) चित्तमलप्रक्षालनोपायार्थंकः परिकर्मोति शब्दो बौद्धबहुलं प्रयुज्यते इति सत्यम्, परं तु परिकर्मेति शब्दः आश्वलायनश्रौतसूत्रे विद्यते । लोकोत्त- रेति शब्दोऽपि महाभारते प्रयुक्तः (शान्ति ३२५/३१, कुम्भकोणसंस्क० ) । तथैष 'द्विपदां वर' इति शब्दो बौद्धशास्त्रेषु सुप्रचलितोऽपि आषंसंप्रदायप्रसिद्ध इति दृश्यते ।