पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४२ ) च । क्लेशकर्मविपाकैश्च वासनाभिस्तथैव अपरामृष्टमेवाह पुरुषं हीश्वरं श्रुतिः ॥ ४३ ॥ वाच्यो यज्ञेश्वरः प्रोक्तो वाचकः प्रणवः स्मृतः । वाचकेन तु विज्ञातो वाच्य एव प्रसीदति ॥ ४४ ॥ ( २।४३ - ४४) । इमौ श्लोकौ योगसूत्रानुसारिणौ इति प्रत्यक्षतो दृश्यते । अत्र श्रुतिरिति पदेन गम्यते काललुप्तायां कस्याञ्चित् शाखायां योगसूत्र वद् ईश्वरलक्षणमासीदिति । इयं शाखा सामवेदीया पातञ्जलशाखा भवितुमर्हति न वेति चिन्तनीयम् । हठयोगग्रन्थे पातञ्जलनिर्देशः-- हठयोग प्रदीपिकाज्योत्स्नाटीकायां व्या- धीत्यादियोगसूत्रं ( १।३० ) उद्धृतम् ( १ | १७) । पुनश्च ४ । १५ श्लोक- व्याख्याने ऋतम्भरेति, श्रुतानुमानेति च ( १४८-४६) सूत्रद्वयमुदाहृतम् । अत्र व्यासभाष्यमपि उद्धृतम् - "अत्र बादरायणकृतं भाष्यम् - श्रुतमागम- विज्ञानम् पुरुषगतो वेति” । तदिदं ११४६ सूत्रीयं भाष्यम् । अन्यत्रापि टीकायां पातञ्जलसूत्राण्युद्घृतानीति । बौद्धग्रन्थाः, योगसूत्रं च – यतो हि पातञ्जलशास्त्रं बुद्धतः प्राग्भावि, अतो प्राचीनतमेषु बौद्धग्रन्थेषु पातञ्जलशब्दवत् प्रयोगाः दृश्यन्ते । चित्त-स्मृति- संस्कार-क्लेश-संवेग—दुःख - निरोध - प्रत्यय - भवाविद्या-वासना-जात्यादयो बहवः शब्दाः पातञ्जलशास्त्रसम्मतेऽर्थे एव बौद्धैरपि प्रयुक्ता इति दृश्यते ( अर्थ- मेदश्च क्वचिदमौलिको दृश्यते ) । क्वचिच्च अभिधेयैक्ये सत्यपि पृथक् पारि- भाषिकशब्दनिर्माणं बौद्धैः कृतम् । यथा— मैत्र्यादिसाधनं पातञ्जलीयम् अभि- लक्ष्य 'ब्रह्मविहार' - इति पदस्थ प्रयोगः । अत्रापीदं विज्ञेयं यद् बुद्धप्राचीन- पञ्चशिखवाक्ये 'विहार'पदम् दृश्यते ( ये चैते मैत्र्यादयो ध्यायिनां विहाराः योगभाष्यम्, ४।१०) तत एव बौद्ध: 'विहार' -पदं गृहीतम्, 'ब्रह्म' इति पदं संयोजितं चेति प्रतिभाति । क्वचिच्च वचनसाम्यमपि दृश्यते, यथा-पातञ्जल- सूत्रस्य ( श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् १।२०) शब्दतोऽनु- करणमपि प्राचीनेषु बौद्धग्रन्थेषु दृश्यते बहुधा । किञ्च, ध्यानादीनां यानि लक्षणानि बौद्धर्भाषितानि, तेष्वपि पातञ्जल- .च्छाया दृश्यते, यद्यपि बौद्ध ग्रन्थगतदृष्टिर्न सर्वत्र न्यायेन संगच्छते । अपि च, ईश्वरप्रणिधानं यथा पातञ्जलयोगे, तथा बुद्धानुस्मृतिबद्ध- ग्रन्थेषु । अत्रानुस्मृतेर्यलक्षणं प्रदत्तं तत् प्रणिधानमेव लक्ष्यतीति व्यक्तमेव । बौद्धैः कर्मविभागविषये दृष्टजन्मवेदनीयम्, अपरपर्यायवेदनीयम् उप- पद्यवेदनीयं च कर्मोकम् । पातञ्जले तु दृष्टादृष्टजन्मवेदनीयरूपः विभागो-