पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४१ ) न्यायग्रन्थेषु योगसूत्रप्रसङ्गः -न्यायवार्तिकतात्पर्यटीकायां पातञ्जलसूत्र- मुल्लिखितम्, यथाह वाचस्पतिः- "योग इति विषयेण योगशास्त्रं पातञ्जलं लक्षयति” इति। (४।२।४६ ) | भासर्वशकृतन्यायसारे हेय-तन्निवर्तक- आत्यन्तिकहान-हानोपायरूपो यादृशः प्रमेयविभागो वर्तते, सोऽपि योगसूत्रम् ( २ | १६-१७, २५-२६) अनुकरोति । न्यायसारग्रन्थेऽन्यत्रापि योगसूत्रच्छाया लक्ष्यते ( पृ० ३५, ईश्वरलक्षणम् ) | व्याकरणे योगसूत्रप्रसङ्गः- व्याकरणग्रन्थेषु पातञ्जलसूत्रं क्वचिद् उद्धृत- मस्ति । दृश्यतां लघुमञ्जूषा ( बौद्धार्थनिरूपणं पृ० २३३ सभापतिसंस्क० ) । अत्र विपर्ययो मिथ्याज्ञानम् (११८) इति सूत्रमुद्धृतमस्ति । पुनश्च पृ० २६६ इत्यत्र अनित्याशुचीत्यादिसूत्र मुद्धृतम् । ग्रन्थेऽस्मिन् अन्यान्यपि सूत्राणि उद्धृतानि (द्र०, पृ० ३००, ३४) योगभाष्यं च ( पृ० ३४७, अन्यत्रापि ) भाष्यपाठे क्वचित् पाठवैलक्षण्य मुपलभ्यते । वेदान्तसूत्रभाष्यकाराः, योगसूत्रं च - प्रायेण सर्वैर्भाष्यकारैः योगसूत्राणि स्मृतानि, स्वमतपोषणाय योगमतखण्डनाथ वा। प्राचीनतमो भाष्यकार: शङ्करोऽपि २|४|१२ भाष्ये प्रमाणविपर्ययेत्यादिसूत्रं ( १ | १ | ६ ) सस्मार | १|३|३३ भाष्येऽपि शङ्करेण 'स्वाध्यायादिष्टदेवतासंप्रयोग' इति योगसूत्रं निर्दिष्टम् | २|१|३ सूत्रभाष्ये प्रायेण भाष्यकारा योगसूत्रं स्मरन्ति । शाक्तग्रन्थेषु योगसूत्रप्रसङ्गः- शाक्को भास्कररायो ललितासहस्रनामभाष्ये ( पृ० ५६, ६४, ६५, ७४, ७६, ११४, १२४, १३४, १३७, १४०, १७६; योगभाष्यमपि, पृ० १५० ) पातञ्जलसूत्राणि उदाजहार । अत्र क्वचित् पाठ- मेदा अवलोक्यन्ते, यथा, 'शब्दमात्रानुपाती वस्तुशून्यो विकल्प' इति पठ्यते ( पृ० ६५ ) ( द्र० योगसू० ११६ ) | क्वचिच्चांशिकरूपेण सूत्रं पठ्यते, यथा- 'रागद्वेषाभिनिवेशाः क्लेशा इति योगसूत्रोक्ते' रिति कथनम् (पृ० ६४) । आचार्यान्तर धृतयोगसूत्रम्—महाभारतटीकायां नीलकण्ठः स्वव्याख्या- पुष्ट्ये योगसूत्रं निर्दिशति ( शान्ति० १६५/१६ टीकायां योगसूत्रं माध्यं चोद्धृतमस्ति ) तथैव धर्मशास्त्रटीकाकारा अन्तराऽन्तरा मोक्षविद्यादि- प्रसङ्गे योगसूत्राणि योगभाष्यं च स्मरन्ति, यथा माधवः पराशरस्मृतिटीका- रम्मे एकाग्रादिचित्तभूमितत्त्वं संयमतत्त्वं च पातञ्जलीयमुदाजहारेति ।- निबन्धग्रन्थेष्वपि आत्मज्ञानप्रसङ्गे योगचर्याविवरणे च योगसूत्राण्युद्धृतानि । काव्यादिटीकाकारा अपि योगसूत्रं काव्यगतप्रसङ्गविशदीकरणाय उद्धरन्तीति दृश्यते । योगशास्त्रेषु योगसूत्रप्रसङ्गः - बृहद्योगियाशक्यस्मृतौ दृश्यते--