पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाचस्पतिकृतटीकायुतण्यासभाष्यसमेतम् [ पा. ४ सू. २९ प्रत्ययविवेकनिम्नस्य सत्वपुरुषान्यताख्यातिमात्रप्रवाहिणश्चित्तस्य तच्छिद्रेषु प्रत्ययान्तराण्यस्मीति वा ममेति वा जानामीति वा न जानामीति वा । कुतः ? क्षीयमाणबीजेभ्यः पूर्वसंस्कारेभ्य इति ॥ २७ ॥ १७९ हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ यथा क्लेशा दुग्धबीजभावा न प्ररोहसमर्था भवन्ति, तथा ज्ञानाग्निना दग्धबीजभावः पूर्वसंस्कारो न प्रत्ययप्रसूर्भवति । ज्ञानसंस्कारास्तु चित्ता- धिकारसमाप्तिमनुशेरत इति न चिन्त्यन्ते ॥ २८ ॥ प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेचः समाधिः ॥२९॥ यदायं ब्राह्मणः प्रसंख्यानेऽप्यकुसीदस्त तोऽपि न किञ्चित्प्रार्थयते । तत्रापि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कार बीजक्षयाम्नास्य प्रत्यया- तेन निम्नस्य । जानामीति साक्षान्मोक्षो विविच्य दर्शितः । न जानामीति मोहः । तन्मूलावहङ्कारममकारावहमस्मीति वा ममेति वा दर्शितौ । क्षीयमाणानि च तानि बीजानि चेति समासः । पूर्वसंस्कारेभ्यो व्युत्थानसंस्कारेभ्यः ॥ २७ ॥ स्या देतत् सत्यपि विवेकविज्ञाने व्युत्थानसंस्कारा यदि प्रत्ययान्तराणि प्रसु- वते कस्तर्हि हानहेतुरेतेषां यतः प्रत्ययान्तराणि न पुनः प्रसुवीरन्नित्यत आह हानमेषां क्लेशवदुक्तम् । अपरिपक्वविवेकज्ञानस्याक्षीयमाणा व्युत्थानसंस्काराः प्रत्ययान्तरं प्रसुवते न तु परिपक्वविवेकज्ञानस्य क्षीणाः प्रत्ययान्तराणि प्रसोतुम- र्हन्ति । यथा विवेकच्छिद्रसमुत्पन्ना अपि क्लेशा न संस्कारान्तरं प्रसुवते । तत्कस्य हेतोः १ तदेते क्लेशा विवेकज्ञानवह्निदग्धबीजभावा इति ( द्र० २।१० ) । एवं व्युत्थानसंस्कारा अपीति । अथ व्युत्थानसंस्कारा विवेकज्ञानसंस्कारैर्निरो- द्वव्याः । विवेकसंस्काराश्च निरोधसंस्कारैः । निरोधसंस्काराणां त्वबाह्यविषयत्वं दर्शितम् ( ३।१५ भाष्य ) । निरोधोपायः प्रायश्चिन्तनीय इत्यत आइ-ज्ञान- संस्कारास्त्विति । परवैराग्यसंस्कारा इत्यर्थः ॥ २८ ॥ तदेवं सूत्रकारो व्युत्थाननिरोधोपायं प्रसंख्यानमुक्त्वा प्रसंख्याननिरोधो- पायमाह — प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः । ततः प्रसंख्यानान्न किञ्चित्सर्वभावाधिष्ठातृत्वादि प्रार्थयते । प्रत्युत तत्रापि क्लिश्नाति परिणामित्वदोषदर्शनेन विरक्तः सर्वथा विवेकख्यातिरेव भवति । एतदेव विवृणोति — तत्रापीति । यदा व्युत्थानप्रत्यया भवेयुस्तदा नायं ब्राह्मणः सर्वथा विवेकख्यातिः । यतस्तस्य न प्रत्ययान्तराणि भवन्ति ततः सर्वथा विवेकख्यातिरिति । तदास्य धर्ममेघः समाधिर्भवति । एतदुक्तं भवनि-प्रसं ख्याने विरक्तस्तन्निरोधमिच्छन्धर्ममेधं समाधिमुपासीत । तदुपासने च सर्वथा