पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा. ४ सू. ३१ ] पातञ्जलयोगसूत्रम् न्तराण्युत्पद्यन्ते । तदास्य धर्ममेघो नाम समाधिर्भवति ।। २९ ।। ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥ तल्लाभाविद्यादयः क्लेशाः समूलकाषं कषिता भवन्ति । कुशला- कुशलाञ्च कर्माशयाः समूलघातं हता भवन्ति । क्लेशकर्मनिवृत्तौ जीवन्नेव विद्वान्विमुक्तो भवति । कस्मात ? यस्माद्विपर्ययो भवस्य कारणम् । न हि क्षीणविपर्ययः कश्चित्केनचित्क्वचिज्जातो दृश्यत इति ॥ ३० ।। तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ ३१ ॥ सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्यं भवति । आवरण तमसाभिभूतमावृतमनन्तं ज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं ग्रहणसमर्थ भवति । तत्र यदा सर्वैरावरणमलैरपगतं भवति तदा भवत्य- स्यानन्त्यम् । ज्ञानस्यानन्त्याज्ज्ञेयमल्पं संपद्यते; यथा—आकाशे खद्योतः । यत्रेदमुक्तम् – १८० विवेकख्यातिर्भवति । तथा च तं निरोधुं पारयतीति ॥ २६ ॥ तस्य च प्रयोजनमाह - ततः क्लेशकर्मनिवृत्तिः । कस्मात्पुनर्जीवन्नेव विद्वान्विमुक्तो भवति । उत्तरं - यस्मादिति—क्लेशकर्मवासनेद्धः किल कर्मा- शयो जात्यादिनिदानम् । न चासति निदाने निदानी भवितुमर्हति । यथाहात्र भगवानक्षत्रादः– वीतरागजन्मादर्शनात् (न्यायसू० ३।१ | २५) इति ॥ ३० ॥ अथैवं धर्ममेघे सति कीदृशं चित्तमित्यत आह-तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् । आब्रियते चित्तसत्त्वमेभिरित्यावरणानि मलाः क्लेश- कर्माणि । सर्वे च त आवरणमलाश्चेति सर्वावरणमलाः। तेभ्योऽपेतस्य चित्तसत्त्वस्य ज्ञानस्य ज्ञायतेऽनेनेत्य नया व्युत्पत्त्या, आनन्त्यादपरिमेयत्वाज्ज्ञेय मल्पम् । यथा हि शरदि घनपटलमुक्तस्य चण्डार्चिषः परितः प्रद्योतमानस्य प्रकाशानन्त्यात्प्रकाश्या घटादयोऽल्पाः प्रकाशन्त एवमपगतरजस्तमसश्चित्तसत्त्वस्य प्रकाशानन्त्यादल्पं प्रकाश्यमिति । तदेतदाह-सर्वैरिति । एतदेव व्यतिरेकभुखेन स्फोरयति-आवर- केण तमसाभिभूतमिति । क्रियाशीलेन रजसा प्रवर्तितमत एवोद्घाटितम् । प्रदेशादपनीतं तम इत्यर्थः । अत एव सर्वान्धर्माज्ज्ञेयान्मेहति वर्षति प्रकाशनेनेति धर्ममेघ इत्युच्यते। नन्वयमस्तु धर्ममेधः समाधिः सवासनक्लेशकर्माशयप्रश- महेतुः । अथ सत्यप्यस्मिन्कस्मान्न जायते पुनर्जन्तु रित्यत आह—यत्रेदमुक्त- मिति । कारणसमुच्छेदादपि चेत्कार्यं क्रियते हन्त भो मणिवेधादयोऽन्धादिभ्यो भवेयुः प्रत्यक्षाः । तथा चानुपपन्नार्थतायामाभाणको लौकिक उपपन्नार्थः स्याद्- 20